________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टुसहितः ।
२४७
कषायानुरसं स्वादु नीतिसान्द्रं प्रशस्यते । गरोदराशग्रहणीपाण्डुरोगे ज्वरेऽरुच ॥ २९८ ॥ वर्चोमूत्र ग्रह प्लीहस्नेहव्यापाद मेहिषु । कषायशीतमधुरैस्तदुत्कृष्टतमं स्मृतम् ॥ २१९ ॥ तर्पणं प्रीणनं बल्यं हृद्यं पित्तविरोधि च । तर्क केवलमम्लं च श्लेष्मानिलहरं लघु ।। २२० || लेखनं दीपनीयं च रक्तपित्तप्रकोपनम् । तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च ।। २२१ ॥ पीनसश्वासकासादौ सिद्धमेव तदिष्यते । तक्रं नैव ये दद्यान्नोष्णकाले न दुर्बले । न मूर्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥ २२२ ॥ शीतकालेऽग्निमान्धे च कफोत्थेष्वामयेषु च । मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ।। २२३ ।। वातेऽम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम् । पिवेत्त कफे चापि व्योषक्षारसमायुतम् ।। २२४ || ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका । तक्राघुरो मण्डः कूर्चिकादतिजः ।। २२५ || गुरुः किलाटोऽनिलहा पुंस्त्वनिद्रापदः स्मृतः । मधुरौ बृंहणौ हृष्यौ तद्वत्पीयूषमोरटी || २२६ ॥ सरसं निर्जलं घोलं मथितं रसवर्जितम् । अर्धोदकमुदश्वित्स्यात्तक्रं पादजलान्वितम् ॥ २२७ ॥ वातपित्तहरं घोलमुदश्विच्छ्रेष्मलं भवेत् । त्रिदोषशमनं क्रं मथितं कफपित्तजित् ॥ २२८ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
―――――
Acharya Shri Kailassagarsuri Gyanmandir
उक्तं श्लेष्मसमीरहारि मथितं तच्छेष्मपित्तापहं रुच्यं माहुरुदश्विदाख्यमधिकं तक्रं त्रिदोषापहम् । मन्दानावरुचौ विदाहविषमश्वासार्विकासादिषु श्रेष्ठं पथ्यतमं वदन्ति सुधियस्तत्रयं ह्युत्तमम् || २५९ ॥
तथाच - तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिश्रमहरं महारि मस्तु । वल्यप्रदं पवननाशमुदश्विदाख्यं शस्तं कफश्रममरुद्धमनेषु घोलम् || २६० ॥ अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः । यथा सुराणाममृतं हिताय तथा नराणामिह तमाहुः || २६१ ।। आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कालेषु । प्रमेहगुल्मोदरवातशूले नित्यं पिवेत्तक्रमरोचके च ।। २६२ ।। अपि च-- शीतकालेऽग्निमान्धे च कफे पाण्ड्वामयेषु च । मार्गोपरोधे कुष्ठादिव्याध तक्रं प्रशस्यते ।। २६३ ।। वातोदरी पिवेत्तकं पिप्पलीलवणान्वितम् । शर्करामरिचोपेतं स्वादु पित्तोदरी पिवेत् || २६४ ॥ यवानीसैन्ध
* ग्रन्थान्तरे — शशिकुन्दसमुज्ज्वलशङ्खनिभं युवती करनिर्मथितं क्वथितम् । परिपक्कसुगन्धिकपित्थसमं पिब हे नृप तकं रुजापहरम् ॥
१ ङ. छ. नातिसाम्लं । २ ङ. छ. चैव हि । ३ ड छ. धुरं तथा श्रेष्ठतमं मतम् । ४ ङ, छ, सिद्धं वा तक्रमिष्य' । ५ ङ. छ. क्षते ।
For Private and Personal Use Only