________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःवाजाजीव्योपयुक्तं कफोदरे । संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवम् ॥२६॥ तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूछिते च । नैव भ्रान्तौ नैव पित्तास्रदोपे नैतद्दद्यात्सूतिकायां विशेषात् ।। २६६ ॥ तक्रं स्नेहान्वितं तत्तु निद्राजाड्यप्रदं गुरु । अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदम् ॥२६७॥
नवनीतम् ( तक्रजम् ) ॥६४ ॥ नवनीतं दधिभवं घृतहेतुः शिशुप्रियम् । दधिमण्डोद्भवं चैव मन्थनोद्भवमेव च ॥ २२९ ॥
गुणाः- नवनीतं नवं हृद्यं ग्राहि रोचनदीपनम् । क्षयारुच्यर्दितप्लीहाहण्यर्थीविकारनुत् ॥ २३० ॥ चक्षुष्यं शिशिरं स्निग्धं वृष्यं जीवनबृंहणम् । क्षीरोद्भवं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥ २३१ ॥ स्मृतिक्षुधाग्निशुक्रोजःकफमेदोविवर्धनम् । वातपित्तविषोन्मादशोफालक्ष्मीजरापहम् ॥ २३२ ॥ सर्वस्नेहोत्तम शीतं मधुरं रसपाकयोः।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:दधिनं नवनीतं स्यात्सारो हैयंगवीनकम् । साधारणगुणाः-शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं कृमिनाशनं कफकरं संग्राहि शूलापहम् । बल्यं पुष्टिकरं तृपार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ २६८ ॥ एकाहाद्युपितं प्रोक्तमुत्तरोत्तरगन्धदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्धृतं स्मृतम् ॥ २६९ ॥
(३५) मधु । मधु क्षौद्रं तु माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं सारघं च तच्च पुष्परसं स्मृतम् ॥ २३३ ॥
मधुजातयः-*माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रकं तथा । *अय॑मौदालकं दालमित्यष्टौ मधुजातयः ॥ २३४ ॥ माक्षिकं तैलवर्ण स्यात्क्षौद्रं तु कपिलं भवेत । पौत्तिकं घृतवर्ण तु श्वेतं भ्रामरमुच्यते ॥ २३५ ॥ आपीतवर्ण छात्राख्यं पिङ्गलं चाय॑नामकम् । औद्दालं स्वर्णसदृशं दालं च पाटलं स्मृतम् ॥२३६ ॥
गुणाः-कषायानुरसं रूक्षं शीतलं मधुरं मधु । दीपनं लेखनं बल्यं व्रणरोपणमुत्तमम् ॥ २३७ । संधानं लघु चक्षुष्यं स्वयं हृद्यं त्रिदोषनुत् । छर्दिहिक्काविषश्वासकासशोपातिसारजित् ॥ २३८ ॥ रक्तपित्तहरं ग्राहि कृमितृण्मोहह
1 झ. 'द्रं माक्षिकं तु पौतिकं कु ।
For Private and Personal Use Only