________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःराजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःदध्याज कफवातनं लघूष्णं नेत्रदोषनुत् । दुर्नामश्वासकासनं रुच्यं दीपनपाचनम् ।। २४७ ॥
औरभ्रदधि (दुग्धजम् ) ॥ ५७ ॥ गुणाः-कोपनं कफवातानां दुर्नाम्नां चाऽऽविकं दधि । विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् ॥ १९२ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःआविकं दधि सुस्निग्धं कफपित्तकरं गुरु । वाते च रक्तवाते च पथ्यं शोफव्रणापहम् ॥ २४८॥
महिषीदधि ( दुग्धजम् ) ॥ ५८ ॥ गुणाः-चलासवर्धनं स्निग्धं विशेषान्माहिषं दधि। महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् ॥ १९३ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःमाहिपं मधुरं स्निग्धं श्लेष्मकुद्रक्तपित्तजित् । वलास्रवर्धनं वृष्यं श्रमनं शोधनं दधि ॥ २४९ ॥
उष्ट्रीदधि ( दुग्धजम् ) ॥ ५९॥ गुणाः-विपाके कटु सक्षारमम्लं स्यादौष्ट्रकं दधि । वातमांसि कुष्ठानि कृमीन्हन्त्युदराणि च ॥ १९४ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःऔष्ट्रमशांसि कुष्ठानि कृमिशूलोदराणि च । विहन्ति कटुकं स्वादु किंचिदम्लरसं दधि ॥ २५०॥
अश्चादधि (दुग्धजम् ) ॥६० ॥ गुणाः-दीपनीयमचक्षुष्यं वातलं दधि वाडवम् । रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् ॥ १९५॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःअश्वादधि स्यान्मधुरं कषायं कफातिमूर्छामयहारि रूक्षम् । वाताल्पदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्याम् ॥ २५१॥
१ ज, ट. बल्यं।
For Private and Personal Use Only