SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टुसहितः । २४३ कैश्विदुक्तो विशेषाच्च विशेषो देशभेदतः ।। २४२ ।। उक्तं च- देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते । तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतम् ।। २४३ || शीतं स्त्रिग्धं गुरुगौल्यं वृष्यं पित्तापहं परम् । ज्ञेया चैवाभिधा तस्य कीलाटं तु पयश्छदः || २४४ ॥ दधि ( दुग्धम् ) ॥ ५३ ॥ * तक्रजन्म पयोहेतुर्नवनीतोद्भवं दधि । Acharya Shri Kailassagarsuri Gyanmandir गुणाः— अम्लं स्वादुरसं ग्राहि गुरूष्णं दधि वातजित् । मेदः शुक्रबल श्लेष्मरक्तपित्ताग्निशोफकृत् ।। १८८ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः --- क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलम् । गुणाः -- दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णम् । यावद्यावन्मधुरं दोषहरं तावदुक्तमिदम् ॥ २४५ ॥ मथितदधि । ( दुग्धजम् ) ॥ ५४ ॥ मथितं गोरसं घोलं द्रवमम्लं विलोडितम् । श्वेतं दण्डाहतं सान्द्रं दध्यम्लं नामतः स्मृतम् ।। १८९ ॥ गुणाः वातपित्तहरं हादि मथितं कफपित्तनुत् । गोदधि ( दुग्धजम् ) ।। ५५ ॥ गुणाः स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् । वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् ॥ १९० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशी वर्गः दधि गव्यमतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् । मधुरमरोचकहारि ग्राहि च वातामयनं च ॥ २४६ ॥ अजादधि ( दुग्धजम् ) ॥ ५६ ॥ गुणाः — दध्याजं कफवातघ्नं लघु पाके क्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ।। १९१ ।। रसे पाके च मधुरं कषायं कफवातजित् । * झ. पुस्तकेऽयमधिकः श्लोको दृश्यते " नष्टं च पयसश्चान्यन्माङ्गल्यं दधि संभवम् । वन्दनीयं महाश्रेष्ठं दृष्ट्वा शकुनमुत्तमम्” ॥ १. छ. वाक्ष । २ ङ. छ. यं रक्तवा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy