________________
Shri Mahavir Jain Aradhana Kendra
६ षष्ठो वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टु सहितः ।
* एकशफापयः । ( दुग्धविशेषः ) ॥ ५० ॥
गुणाः- उष्णं चैकशफं बल्यं शाखावातहरं पयः । मधुराम्लरसं रूक्षं लवणानुरसं लघु ॥ १७४ ॥
२४१
मानुषीपयः । ( दुग्धविशेषः ) ॥ ५१ ॥
गुणाः- स्निग्धं स्थैर्यकरं चापि चक्षुष्यं बलवर्धनम् । जीवनं बृंहणं सात्म्यं स्नेहनं मानुषीयः ।। १७५ ।। नाशनं रक्तपित्ते च तर्पणं चाक्षिशूलनुत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
मधुरं मानुषीक्षीरं कषायं च हिमं लघु । चक्षुष्यं दीपनं पथ्यं पाचनं रोचनं च तत् ।। २२३ ।।
हस्तिनीपयः (दुग्धविशेषः) ।। ५२ ।।
गुणा:- हस्तिन्या मधुरं हृष्यं कषायानुरसं गुरु । स्निग्धं शीततरं चापि चक्षुष्यं बलवर्धनम् || १७६ ।।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
मधुरं हस्तिनीक्षीरं वृष्यं गुरु कषायकम् । स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ।। २२४ ।।
पयः सामान्यगुणदोषाः - विवत्सा वालवत्सानां पयो दोषलमीरितम् । पिण्याकाम्लाशिनीनां च गुर्वभिष्यन्दि तद्भृशम् || १७७ || जाङ्गलानूपदेशेषु पारन्तीनां यथोत्तरम् । पयो गुरुतरं स्नेहो यथा चैषां विवर्धते ॥ १७८॥ कृष्णायाः कृष्णवत्सायाः शुक्लायाश्च परं पयः । सुखोष्णं कफवातघ्नं गृतशीतं च पित्तजित् ।। १७९ ।। आमवातकरं चापि धारोष्णममृतं पयः । सुभृतं च पयः पीतं पीयूषादपि तद्गुरु ।। १८० ।। कूर्चिकाश्च +किलाटाश्च गुरुवः श्लेष्मवर्धनाः । तर्पणाः प्रीणना बल्या बृंहणा मारुतापहाः ।। १८१ ।। दीप्ताग्नीनामनिद्राणां व्यवाये चापि पूजिताः । अनिष्टगन्धमम्लं च विवर्ण विरसं च तत् ।। १८२ ॥ वर्ज्य सलवणं क्षीरं यच्च विग्रन्थितं भवेत् । धारोष्णममृतं पथ्यं धाराशीतं त्रिदोषलम् ।।१८३ ।। ६मृतशीतं त्रिदोषनं शतोष्णं कफवातजित् ॥ १८४ ॥ जीर्णज्वरे किंतु कफे विनीले स्याद्दुग्धपानं हि सुधासमानम् । तदेव पीतं तरुणज्वरे च निहन्ति हालाहलवन्मनुष्यम् ।।१८५ || नवज्वरे च मन्दाग्नौ द्यामदोषेषु कुष्ठिनाम् । शू
I
For Private and Personal Use Only
* राजनिघण्टावेकशफापयसो गुणा न दृश्यन्ते ।
+ 'कूर्चिका' विरजण इति ख्याते । + किलाटः, निवळ (थरी, साई ) इति ख्याते $ शृतम् कढविलेलें, तापविलेले इति ख्याते ।
३१