________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४० धन्वन्तरीयनिघण्टुः
[सुवर्णादिःआविकं तु पयः स्निग्धं कफपित्तहरं परम् । स्थौल्यमेहहरं पथ्यं लोमशं गुरु वृद्धिदम् ॥ २१८॥
महिषीपयः (दुग्धविशेषः ) ॥ १६ ॥ महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् । निद्राकरं शीतकरं गव्यात्स्निग्धतरं गुरु ॥ १७० ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःगौल्यं तु महिषीक्षीरं विपाके शीतलं गुरु । बलपुष्टिप्रदं वृष्यं पित्तदाहासनाशनम् ॥ २१९ ॥
उष्ट्रीपयः (दुग्धविशेषः)॥४७॥ गुणाः-रूक्षोष्णं क्षीरमुष्ट्रीणामीपत्सलवणं लघु । शस्तं वातकफानाहकृमिशोफोदरार्शसाम् ॥ १७१ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःउष्ट्रीक्षीरं कुष्ठशोफापहं तत्पित्तार्शोघ्नं तत्कफाटोपहारि । आनाहार्ति जन्तुगुल्मोदराख्यं श्वासोल्लासं नाशयत्याशु पीतम् ॥ २२० ॥
अश्वापयः ( दुग्धविशेषः ) ॥४८॥ गुणाः-* अश्वाक्षीरं तु वृष्याम्लं लवणं दीपनं लघु । * देहस्थैर्यकरं वल्यं गौरवं कान्तिकृत्परम् ॥ १७२ ॥ श्वासवातहरं साम्लं लवणं रुचिदीप्तिकृत् ।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः*। * ॥ २२१॥
गर्दभीपयः । ( दुग्धविशेषः ) ॥ १९॥ गुणाः-कासश्वासहरं क्षीरं गार्दभं बालरोगनुत् । मधुराम्लरसं रूक्षं लवणानुरसं गुरु ॥ १७३ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:-- बलकृद्गर्दभीक्षीरं वातश्वासहरं परम् । मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्मृतम् ॥ २२२ ॥
१ डा. 'ह्रिसादन । २ ङ. पयः । ३ ङ. छ. कृत्सर।
For Private and Personal Use Only