________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ] राजनिघण्टुसहितः।
२३९ (३३) दुग्धम् । दुग्धं क्षीरं पयः स्वादु रसायनसमाश्रयम् । सौम्यं प्रस्रवणं स्तन्यं वारिसात्म्यं च जीवितम् ॥ १६१ ॥
गुणाः—गव्यमा तथौरभ्रं माहिषं कारभं च यत् । अश्वायाश्चैव नार्याश्च हस्तिननिां च यत्पयः ॥ १६२ ॥ तथाऽनेकौपधिरसं प्राणिनां प्राणदं गुरु । मधुरं पिच्छलं स्निग्धं शीतं सूक्ष्मं सरं मृदु ॥ १६३ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःक्षीरं पीयूषमूधस्यं दुग्धं स्तन्यं पयोऽमृतम् ।
गोदुग्धम् (दुग्धविशेषः ) ॥ ४३ ॥ गुणाः-पथ्यं रसायनं बल्यं हृद्यं मेध्यं गवां पयः । आयुष्यं पुंस्त्वकृतातरक्तपित्तविकारनुत् ॥ १६४ ॥ गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् । कफन्नं रक्तवर्णानां गोदुग्धं च त्रिधा स्मृतम् ॥ १६५ ॥ गोक्षीरमनभिष्यन्दि स्निग्धं गुरु रसायनम् । रक्तपित्तहरं शीतं मधुरं रसपाकयोः॥ १६६ ॥ जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् ॥ ___ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः--
गव्यं क्षीरं पथ्यमत्यन्तरुच्यं स्वादु स्निग्धं वातपित्तामयन्नम् । कान्तिप्रज्ञाबुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥ २१६ ॥
अजापयः (दुग्धविशेषः ॥ ४४ ॥ गुणाः-छागं कषायं मधुरं शीतं ग्राहितरं लघु । रक्तपित्तातिसारनं क्षयकासज्वरापहम् ॥ १६७ ॥ * अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् । * अत्यम्बुपानाद्यायामात्सर्वव्याधिहरं परम् ॥ १६८ ॥ __ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:गुणाः-* । * ॥ २१७ ॥
औरझपयः ( दुग्धविशेषः ) ॥ ४५ ॥ गुणाः-औरभ्रं मधुरं स्निग्धमुष्णं तिक्तं कफापहम् । गुरु शुद्धानिले पथ्यं शोफे चानिलशोणिते ॥ १६९ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
१ ङ. छ. ण, जीवनम् ।
For Private and Personal Use Only