________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८ धन्वन्तरीयनिघण्टुः
[सुवर्णादिःहस्तिनीकृतम् (घृतविशेषः)॥ ४० ॥ गुणाः कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु । हन्ति कारेणवं सर्पिः कफकुष्टविषकमीन् ॥ १५८ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:निहन्ति हस्तिनीसर्पिः कफपित्तविषकमीन् । कषायं लघु विष्टम्भि तिक्तं चाग्निकरं परम् ॥ २१२ ॥
स्त्रीतम् (घृतविशेषः) ॥ ४१ ॥ गुणाः-चक्षुष्यमयं स्त्रीणां तु सर्पिः स्यादमृतोपमम् । वृद्धिं करोति देहान्योर्लघु पाके विषापहम् ॥ १५५ ॥ तर्पणं नेत्ररोगनं दाहनुत्पयसो हृतम् । ___ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
नारीसर्पिस्तु चक्षुष्यं पथ्यं सर्वामयापहम् । मन्दाग्निदीपनं रुच्यं पाके लघु विषापहम् ॥ २१३॥
पुराणतम् (घृतविशेषः ) ॥ ४२ ॥ गुणा:--सर्पिः पुराणं तिमिरं श्वासपीनसकासनुत् । मूर्छाकुष्ठविपोन्मादग्रहापस्मारनाशनम् ॥ १५६ ॥ योनिकाक्षिशिरसां शूलघ्नं शोफजित्परम् । हन्ति दोषत्रयं भेदि व्रणशोधनरोपणम् ॥ १५७ ॥ उग्रगन्धि पुराणं स्याद्दशवर्षोत्थितं घृतम् । लाक्षानिभं रसे शीतं तद्वत्सर्वग्रहापहम् ॥ १५८ ॥ तच्च घृतमण्डोऽपि रूक्षस्तिक्तस्तनुश्च सः । ग्रन्थान्तरे-एकादशशतं चैव वत्सरानुषितं घृतम् । रक्षोघ्नं कुम्भसर्पिः स्यात्परतस्तु महावृतम् ॥१५९॥ पेयं महाघृतं भूतैः कफन्नं पवनाधिकैः । बल्यं पवित्र्यं मेध्यं च विशेषात्तिमिरापहम् ॥ १६० ॥ सर्वभूतहरं चैव घृतमेतत्प्रशस्यते।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःगुणाः—मदापस्मारमूर्छादिशिरःकर्णाक्षिजा रुजः। सर्पिः पुराणं जयति व्रणशोधनरोपणम् ॥ २१४ ॥ आयुर्वृद्धिं वपुपि दृढतां सौकुमार्य च कान्ति बुद्धिं धत्ते स्मृतिबलकरं शीतविध्वंसनं च । पथ्यं वाल्ये वयसि तरुणे वार्धके चातिवल्यं नान्यत्किचिजगति गुणदं सर्पिपः पथ्यमस्ति ॥ २१५ ॥
१ ण. °ति शुक्राग्न्यो । २ ण. म् । नेत्ररोगप्रशमनं दा'। ३ ण. 'सो घृत । ४ ण. 'क्षस्ती
क्ष्णस्त।
For Private and Personal Use Only