SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३६ धन्वन्तरीयनिघण्टुः ( ३२ ) घृतम् । घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभिघारथ जीवनीयं कीर्तितम् ॥ १४४ ॥ गुणाः सहस्रवीर्य विधिवद्भुतं कर्म सहस्रकृत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: - Acharya Shri Kailassagarsuri Gyanmandir * घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभियारच होम्य मायुश्च तैजसम् ।। २०२ । [ सुवर्णादिः गुणाः -- भक्षणं स्नेहनं स्नेहः स्निग्धता मृक्ष एव च । अभ्यङ्गोऽभ्यञ्जनं चैव चोपडं च घृतादिकः ॥ २०३ ॥ गोघृतम् (घृतविशेषः) ॥ ३२ ॥ गुणाः शस्तं धीस्मृतिमेधाशिवलायुः शुक्रचक्षुषाम् । बालवृद्धप्रजाकान्तिसौकुमार्यस्थिरार्थिनाम् || १४५ || क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् । विपाके मधुरं शीतं वातपित्तविषापहम् । चक्षुष्यं बल्यमग्र्यं च गव्यं सर्पिर्गुणोत्तरम् ।। १४६ ।। राजघण्टौ क्षीरादिः पञ्चदशो वर्ग: ----- धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृद्वातश्लेप्महरं श्रमोपशमनं पित्तापहं हृद्यदम् । वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥ २०४ ॥ महिषीवृतम् (घृतविशेषः ) ।। ३३ ।। गुणाः -- मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् । वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ।। १४७ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: सर्पिमहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृद्वात श्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमम् | दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुप्यं नवराव्यतः परमिदं हृद्यं मनोहारि च ।। २०५ ।। For Private and Personal Use Only अजाघृतम् (घृतविशेषः ) ॥ ३४ ॥ गुणाः- आजं घृतं दीपनीयं चक्षुप्यं बलवर्धनम् । कासे श्वासे क्षये चापि पथ्यं पाके च तलघु ॥ १४८ ॥ * इदं श्लोकद्वयं ज. ट. पुस्तकयोर्न दृश्यते । १ ङ. छ. 'त्तकफाप ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy