________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
६ षष्ठो वर्गः ] राजनिघण्टुसहितः।
कोशाम्रजलम् (तैलविशेषः ) ॥२७॥ गुणाः—सरं कोशाम्रजं तैलं कृमिकुष्ठविषापहम् ।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सरं कोशाम्रजं तैलं कृमिकुष्ठव्रणापहम् । तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥ २००॥
*आत्मगुप्तातैलम् (तैलविशेषः ) ॥२८॥ गुणाः-गुरूष्णं स्निग्धमधुरं कषायं चाऽऽत्मगुप्तजम् । फलं बल्यं च वृष्यं च बृंहणं वातजित्परम् ॥ १३५ ॥
निम्बतैलम् (तैलविशेषः ) ॥ २९ ॥ गुणाः—नात्युष्णं निम्बजं तैलं कृमिपित्तकफापहम् । वातपित्तप्रशमनं मदारश्मीरुजापहम् ॥ १३६ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:निम्वतैलं तु नात्युप्णं कृमिकुष्ठकफापहम् ।
आक्षतैलम् (तैलविशेषः ) ॥३०॥ गुणाः-*आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
तैलविशेषः ॥ ३१ ॥ गुणाः-दन्तिमूलकरक्षोनकरजारिष्टशिग्रुजम् । सुवर्चलेङ्गुदीपीलुशविनीनीपसंभवम् ॥ १३७ ॥ सरलागरुदेवाशिंशपासारजन्म च । तुम्बरारुकरोत्थं च तीक्ष्णं कशस्रपित्तजित् ॥ १३८ ॥ अर्शःशुक्रकृमिश्लेष्मकुष्ठमेदोनिलापहम् । करञ्जारिष्टके तिक्ते नात्युष्णे तत्र निर्दिशेत् ॥ १३९ ॥ कषायं तिक्तकटुकं सारलं व्रणशोधनम् ।। भृशोष्णे तिक्तकटुनी तुम्बरारुष्करोद्भवे ॥ ॥ १४० ॥ विशेषात्कृमिकुष्ठम्ने तथोर्ध्वाधोविरेचने । अक्षातिमुक्तकाक्षोडनारिकेरमधूकजम् ॥ १४१ ॥ त्रपुस्योारुकूष्माण्ड श्लेष्मातकप्रियालजम् । वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम् ॥ १४२ ॥ कफवातहरं रूक्षं कषायं नातिपित्तकृत । सतिक्तं सहकारस्य तैलं सुरभि रोचनम् ॥ १४३ ॥ यवतिकोद्भवं तैलं सुरभि रेचनं तथा ।
* राजानघण्टावात्मगुप्तातैलं न दृश्यते । १ इ. दालक्ष्मीजराप । छ. दालक्ष्मीज्वराप ।
For Private and Personal Use Only