________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४ धन्वन्तरीयनिघण्टुः
[ सुवर्णादिःतिलतैलमलं करोति कैश्यं मधुरं तिक्तकषायमुष्णतीक्ष्णम् । वलकृत्कफवातजन्तुखत्रणकण्डूतिहरं च कान्तिदायि ॥ १९५ ॥
अतसीतैलम् (तैलविशेषः ) ॥२३॥ गुणाः–वातघ्नं मधुरं तेषु क्षौमं तैलं बलासकृत् ।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः-- मधुरं त्वतसीतैलं पिच्छिलं चानिलापहम् । मदगन्धि कषायं च कफकासापहारकम् ॥ १९६ ॥
सर्षपतैलम् (तैलविशेषः ) ॥२४॥ गुणाः-कटुपाकमचक्षुष्यं स्निग्धोष्णं कफनाशनम् । कृमिघ्नं सापपं तैलं कण्डूकुष्टापहं लघु ॥ १३० ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सर्पपतैलं तिक्तं कटुकोष्णं वातकफविकारघ्नम् । पित्तास्रदोषदं कृमिकुष्ठनं तिलजवञ्च चक्षुष्यम् ॥ १९७ ॥
एरण्डतैलम् (तैलविशेषः ) ॥२५॥ गुणाः-तैलमेरण्डजं बल्यं गुरूप्णं मधुरं सरम् । कफमेदोनिलहरं लेखनं कटु दीपनम् ॥ १३१ ॥ हृदस्तिपाईजानूरुत्रिकपृष्टास्थिशूलिनाम् । आमदोषेषु वातामृक्प्लीहोदावर्तशोफिनाम् ॥ १३२ ॥ हितं वातामयस्यायं ग्रन्थिबन्धविकारिणाम् । तिक्तोष्णं पित्तलं वित्रं रक्तैरण्डोद्भवं भृशम् ॥ १३३ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:-- एरण्डतैलं कृमिदोपनाशनं वातामयन्नं सकलाङ्गशूलहृत् । कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुतेऽतिदीपनम् ॥ १९८ ॥
कुसुम्भतैलम् (तैलविशेषः ) ॥ २६ ॥ गुणाः—कुसुम्भतैलमुष्णं च विपाके कटुकं गुरु । विदाहि च विशेपेण तच रोगप्रकोपनम् ॥ १३४॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:कुसुम्भतैलं कृमिहारि तेजोवलावहं यक्ष्ममलापहं च । त्रिदोपकृत्पुष्टिवलक्षयं च करोति कण्डं च करोति दृष्टेः ॥ १९९ ।।
१ छ. ण सर्वदोषन । २ ज. दृष्टया ।
For Private and Personal Use Only