SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। तिलः (धान्यविशेषः) ॥२१॥ *तिलस्तु होमधान्यं स्यात्पवित्रः पितृतर्पणे । *पापघ्नः पूतधान्यश्च जातिलस्तु वनोद्भवः ॥ १२२ ॥ गुणाः-तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः । विपाके कदुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् ॥ १२३ ॥ वल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः । दन्त्योऽल्पमूत्रकृद्राही वातघ्नोऽग्निमृतिप्रदः ॥ १२४ ॥ ___ राजनिघण्टौ शाल्यादिः षोडशो वर्गः*। * ॥ १९२ ॥ गुणाः-स्निग्धो वर्णवलाग्निवृद्धिजननस्तन्यानिलनो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्योऽतिपथ्यो व्रणे । संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास्तथाऽन्ये तिलाः (३१) तैलम् । तैलं स्नेहोत्तमं प्रोक्तं तिलजं तिलसंभवम् । अभ्यञ्जनं मृक्षणं च तच्च मर्दनकं स्मृतम् ॥ १२५ ॥ गुणाः-कषायं च रसे स्वादु सूक्ष्ममुष्णं व्यवायि च । पित्तलं वद्धविण्मूत्रं न च श्लेष्मविवर्धनम् ॥ १२६ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःतैलं यत्तिलसर्पपोदितकुसुम्भोत्थातसीधान्यजं यच्चेरण्डकरञ्जकेङ्गुदिफलैनिम्वाक्षनैर्गुण्डकैः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचित्राभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥ १९४ ॥ तिलतैलम् (तैलविशेषः ) ॥ २२॥ गुणाः-स्नानाभ्यगावगाहेषु तिलतैलं विशिष्यते । तद्वद्भस्तिष्वपानेषु नस्यकर्णाक्षिपूरणे ॥ १२७ ॥ अन्नपानविधौ वाऽपि प्रयोज्यं वातशान्तये । छिन्नभिन्नयुताल्पिष्ठमथितक्षतपातिते ॥ १२८ ॥ भन्ने स्फुटितविद्धाग्निदग्धविश्लिष्टदारिते। भयाभिहितनिर्भुग्ने मृगव्यालादिभक्षिते ॥ १२९ ॥ तैलयोगश्च संस्कारात्सर्वरोगापहो मतः। __ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः + 'जटिलस्तु' इतिपाठः । १ ट, अकैर्गुडफ। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy