________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
धन्वन्तरीयनिघण्टुः- [सुवर्णादिः"कुसुम्भम् (धान्यविशेषः ) ॥ १७ ॥ कुसुम्भं पावकं पीतमलक्तं वस्त्ररञ्जनम् । तद्बीजं कीलता लवा शुद्धा पद्मोत्तरं तथा ॥ ११८ ॥ अन्यच्च-कुमुम्भं स्याद्वदिशिखं वस्त्ररञ्जकसंज्ञितम् । गुणाः-कुसुम्भं वातलं रूक्षं रक्तपित्तकफापहम् ॥ ११९ ॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःज्ञेयोऽरण्यकुसुम्भः स्यात्कौसुम्भश्चाग्निसंभवः । गुणा:-कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ॥ १८९ ॥
खस्तिलः(धान्यविशेषः ) ॥ १८ ॥ खस्तिलस्तिलभेदस्तु शुभ्रपुष्पो लसत्फलः । गुणाः-वृष्यो बैल्यश्च खस्तिलः श्लेष्मनो वातजिद्गुरुः ॥ १२० ॥
राजनिघण्टौ शताहादिश्चतुर्थों वर्गः-- खसखसः सूक्ष्मबीजः स्यात्सुबीजः सूक्ष्मतण्डुलः । गुणाः-खस्खसो मधुरः पाके कान्तिवीर्यबलमदः ॥ १९०॥
खस्तिलवल्कलः ॥ १९॥ खस्तिलवल्कलगुणाः–वल्कलस्तत्फलो ज्ञेयो रूक्षो ग्राही विशोषणः ।
'अफूकम् (उपविषम् ) (खस्तिलनिर्यासः) ॥२०॥ अफूकं तद्रवो भूतमहिफेनमफेनकम् । गुणाः-अफूकं शोधनं ग्राहि श्लेष्मन्नं वातपित्तलम् ॥ १२१ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःअफेनं खस्खसरसो निफेनं चाहिफेनकम् । गुणाः---अफेनं संनिपातनं वृष्यं वल्यं च मोहदम् ॥ १९१॥
*राजनिघण्टौ ‘कुसुम्भस्य' पयार्यशब्दा न दृश्यन्ते ।
अरण्यकुसुम्भः 'वनकुसुंभः' इति ख्याते । ''अफूकशोधनम् अहिफेनं शृङ्गबेररसर्भाव्यं त्रिसप्तधा । शुद्धयुक्तेषु योगेषु योजयेत्तद्विधानतः ॥
गुणाः-अफुक शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् । मदकृद्दाहकृच्छुक्रस्तम्भनायासमेहकृत् ।। अतिसार ग्रहण्यां च हितं दीपनपाचनम् । सेवितं दिवसैः कैश्चिद्रमयत्यन्यथाऽतिकृत् ॥ ३ ॥
१ त. 'भेदः शसतिलः । २ त. वल्यः शसतिल: ।
For Private and Personal Use Only