________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ] राजनिघण्टुसहितः।
२३१ गुणाः-राजशाकिनिका रुच्या पित्तनी शीतला च सा । सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ १८३ ॥
मेथिका (धान्यविशेषः ) ॥ १४ ॥ मेथिका दीपनी चोग्रा कुञ्चिका बहुपुत्रिका । मल्लिका शीतवीर्या च ज्योतिष्का वल्लरी शिखी ॥ १११ ॥
गुणाः-*मेथिका कटुरुष्णा च रक्तपित्तप्रकोपनी । अरोचकहरा दीप्तिकरी वातप्रणाशिनी ॥ ११२ ॥
मेथिका ( मेथिकाविशेषः ) ॥१५॥ मेथिका वास्तिका सेलुरहित्थो वनमेथिका । अहित्थोऽल्पगुणस्तस्या वाजिनासस्तु पूजितः ॥ ११३ ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः__ मेथिका मेथिनी मेथी दीपिका बहुपत्रिका । वेधनी गन्धवीजा च ज्योतिगन्धफला तथा ॥ १८४ ॥ वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी । कुश्चिका बहुपर्णी च पीतवीजा मुनीन्दुधा ।। १८५ ॥ गुणाः-*। अरोचकहरा दीप्तिकरी वातघ्नदीपनी ॥ १८६ ॥
प्रतरीकः ( अतसी ) (धान्यविशेषः ) ॥ १६ ॥ प्रतरीतमा प्रोक्ता रुद्रपत्नी च वल्कला । उमा सुनीलपुष्पा च वसुतकर्कासुकापि(?) च ॥११४।। शीता तैलफला चैव पालिका पूतिपूरकः । अन्यच्चअतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा ॥ ११५ ॥
गुणाः-रुद्रपत्नी तु मधुरा पित्तहा बलकारिका । कफवातकरी चेषत्पित्तहृत्कुष्ठवातजित् ॥ ११६ ।। अन्यच्च-अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः । उष्णामृक्शुक्रवातनी कफपित्तविनाशिनी ॥ ११७ ॥
राजनिघण्टौ शाल्यादिः पोडशो वर्ग:अतसी पिच्छला देवी मदगन्धा मदोत्कटा । उमा झुमा हैमवती सुनीला नीलपुष्पिका ॥ १८७ ॥ . गुणाः-अतसी मदगन्धा स्यान्मधुरा बलकारिका । कफवातकरी चेषत्पित्तहृत्कुष्ठवातनुत् ॥ १८८॥
१८. दीपनी । २ द. मन्या ।
For Private and Personal Use Only