________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३० धन्वन्तरीयनिघण्टु:
[सुवर्णादिः___गुणाः-निष्पावोऽनिलपित्तासमूत्रस्तन्यकरः सरः। विदाहृष्णो गुरुः शोषशोफकृच्छुक्रनाशनः ॥ ११० ।।
राजनिघण्टौ शाल्यादिः षोडशो वर्गःमधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा। पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ १७५ ॥
गुणाः—मधुशर्करा सुरुच्या मधुराल्पकषायका । शिशिरा वातुला बल्याsप्याध्मानगुरुपुष्टिदा ॥ १७६ ॥ सोऽन्यश्च कटुनिष्पावः खर्घरो नदीजस्तथा ।
गुणाः-नदीनिष्पावकस्तिक्तः कटुकोऽस्रपदो गुरुः । वातलः कफदो रूक्षः कषायो विषदोषनुत् ।। १७७ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गः
रागी (धान्यविशेषः) ॥ १० ॥ रागी तु लाञ्छनः स्याद्वहुदलकणिशश्च गुच्छकणिशश्च । गुणाः-तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ १७८ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:
कुरी (धान्यविशेषः ) ॥ ११ ॥ कुरी तु तृणधान्यं स्यान्मधुरं तरलपदम् । हरितं वार्धकं पक्कं वाजिनां पुष्टिदायकम् ॥ १७८ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः--
गोजिह्वा (धान्यविशेषः ) ॥१२॥ गोजिह्वा खरपत्री स्यात्प्रतनादाविके तथा। अधोमुखा धेनुजिह्वा चाधःपुष्पी च सप्तथा ॥ १८० ॥ अन्यच्च-गवेधुका च गोजिह्वा कर्षणीया सिता तथा ।
गुणाः—गोजिहा कटुका तीव्रा शीतला पित्तनाशनी । व्रणरोपणी चैव सर्वदन्तविषार्तिजित् ॥ १८१ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः
राजादिः (धान्यविशेषः ) ॥ १३ ॥ राजाभिधानपूर्वा तु नगाबाद्यपरेण तु । राजाद्रिः स्याद्राजगिरिजर्जातव्या राजशाकिनी ॥ १८२ ॥
१ज, कुतुरी तृ२ ज. स्याद्भुतोन्मादातहा तथा । ट. स्याद्भूतोन्मादातिका तथा ।
For Private and Personal Use Only