________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
धन्वन्तरीयनिघण्टुः
[ गुडूच्यादि:
गुणाः - महानिम्बस्तु शिशिरः कषायः कटुतिक्तकः । अत्रदाहवलासघ्नो
विषमज्वरनाशनः ॥ ४७ ॥
( राजनिघण्टौ ) प्रभद्रादिर्नवमो वर्ग:
-
Acharya Shri Kailassagarsuri Gyanmandir
कैडर्यः ( निम्बविशेषः ) ॥ ९॥
hsasat महानिम्बो रामणो रमणस्तथा । गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ ४८ ॥
गुणाः –— कैडर्यः कटुकस्तिक्तः कषायः शीतलो लघुः । संतापशोषकुष्ठात्रक्रिमिभूतविषापहः ।। ४९ ॥
( ९ ) किराततिक्तः ।
किराततिक्तको हैमः काण्डस्तिक्तः किरातकः । भूनिम्बो नार्यतिक्तर्थं किरातो रामसेनकः ।। ३३ ॥ कैडर्यः पिचुमन्दश्च निम्बोऽरिष्टो वरत्वचः । छर्दिनो हिङ्गुनिर्यासः प्रियशालश्च पार्वतः ॥ ३४ ॥ नेपालः कथितश्चान्यो जातिभेदो ज्वरान्तकः । महातिक्तश्च तिक्तश्च निद्रारिः संनिपाता ।। ३५ ।। गुणाः - किरातको रसे तिक्तो रसः शीतो लघुस्तथा । श्लेष्मपित्तास्रशोफादिकासतृष्णाज्वरापहः ।। ३६ ।।
राजनिघण्टौ भद्रादिर्नवमो वर्ग:
भूनिम्बो नार्यतिक्तः स्यात्कैरातो रामसेनकः । कैराततिक्तको हैमः काण्डस्तिक्तः किरातकः ॥ ५० ॥
गुणाः - भूनिम्बो वातलस्तिक्तः कफपित्तज्वरापहः । व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ।। ५१ । नेपालनिम्बः – नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः । नाडीतिक्तोऽर्धतिक्तश्च निद्रारिः संनिपाता ।। ५२ ।।
गुणाः – नेपालनिम्बः शीतोष्णो योगवाही लघुस्तथा । तिक्तोऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ ५३ ॥
(१०) * कटुका ।
कटुका मत्स्यशकला मत्स्यपित्ता च रोहिणी । कृष्णभेदा काण्डरुहा नाम्ना कटुकरोहिणी ॥ ३७ ॥ अशोकरोहिणी तिक्ता चक्राङ्गी शकुलादनी । कटुरोहि
* कटुकाशोधनम् — कटुकीमुष्णदुग्धेन प्रक्षाल्य ग्राहयेदपि ।
१ झ. ंस्रकृमि ं । २ ख. ग. ङ. श्च कैरा । ३ क. घ. ङ. च. कौण्डर्यः । ४क. ख. घ. ङ. च. पथिकश्वान्यो ।
For Private and Personal Use Only