________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः। ण्यरिष्टा च प्रोक्ता तिक्तकरोहिणी ॥ ३८॥ आमनी शतपर्वा च विपाङ्गी जननी जना। _गुणाः-कटुका पित्तजित्तिक्ता कटुः शीतास्त्रदाहजित् । बलासारोचकान्हन्ति विषमज्वरनाशिनी ॥ ३९॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी । चक्राङ्गी मत्स्यपित्ता च बकुला शकुलादनी ॥ ५४॥ सादनी शतपर्वा स्याचक्राङ्गी मत्स्यभेदिनी। अशोकरोहिणी कृष्णा कृष्णभेदा महौषधी ॥ ५५ ॥ कव्यञ्जनी काण्डरुहा कदुश्च कटुरोहिणी । केदारकटुकारिष्टाऽप्यामन्त्री पञ्चविंशतिः॥५६॥
गुणाः-कटुकाऽतिकदुस्तिक्ता शीतपित्तास्रदोषजित् । बलासारोचकश्वासज्वरद्वेचनी च सा ॥ ५७ ॥
(११) मुस्ता। मुस्ता चाम्बुधरो मेघो घनो राजकसेरुकः । भद्रमुस्तो वराहोऽब्दो गाङ्गेयः कुरुविन्दकः ॥ ४० ॥ जीमूतोऽथ वृषध्वाङ्क्षी जलदोऽथ जलावहः । नादेयः पिण्डमुस्तोऽन्यो नागरः परिकीर्तितः ॥ ४१ ॥
गुणाः—मुस्ता तिक्तकषायाऽग्निशिशिरा श्लेष्मरक्तजित् । पित्तज्वरातिसारनी तृष्णाकृमिविनाशनी ॥ ४२ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:मुस्ता भद्रा वारिदाम्भोदमेघा जीमूतोऽब्दो नीरदोऽभ्रं घनश्च । गाङ्गेयं स्याद्भद्रमुस्ता वराही गुण्ड्रग्रन्धिर्भद्रकासी कसेरुः ॥ ५८ ॥ क्रोडेष्टा कुरुविन्दाख्या सुगन्धिम्रन्थिला हिमा । वन्या राजकसेरुश्च कैच्छोत्था पञ्चविंशतिः
___ गुणाः-भद्रमुस्ता कपाया च तिक्ता शीता च पाचनी । पित्तज्वरकफनी च ज्ञेया संग्रहणी च सा ॥६० ॥ अपरा नागरमुस्ता नगरोत्था नागरादिघनसंज्ञा । चक्राका नादेयी चूडाला पिण्डमुस्ता च ॥ ६१ ॥ शिशिरा च वृपध्वाक्षी कच्छरुहा चानुकेसरोचाटा । सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ ६२॥
गुणाः-तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् । पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ ६३ ॥
१ ग. ङ. च. छ. मुस्तमम्बु । २ क. ख. ग. घ, ङ, च बलाहकः । ३ झ. कच्छन्योत्था ।
For Private and Personal Use Only