________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः। (राजनिघण्टौ) शाल्मल्यादिरष्टमो वर्गः
खादिरः ( खदिरनिर्यासः ) ॥७॥ खादिरः खदिरोद्भूतस्तत्सारो रङ्गदः स्मृतः । ज्ञेयः खदिरसारश्च तथा रङ्गः षडाह्वयः॥४१॥
गुणाः-कटुकः खादिरः सारस्तिक्तोष्णः कफवातहत् । व्रणकण्ठामयनश्च रुचिकृद्दीपनः परः ॥४२॥
(८) निम्बः ( उत्तराभाद्रपदा) निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः । अरिष्टः सर्वतोभद्रः प्रभद्रः पारिभद्रकः ॥ २९॥
गुणाः-निम्वस्तिक्तरसः शीतो लघुः श्लेष्मास्रपित्तनुत् । कुष्ठकण्डूव्रणान्हन्ति लेपाहारादिशीतलः ॥ ३० ॥ अपकं पाचयेच्छोफं व्रणं पकं विशोधयेत् ।
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः । काकफलः कीरेष्टो नेताऽरिष्टश्च सर्वतोभद्रः ॥ ४३ ॥ धमनो विशीर्णपर्णी पवनेष्टः पीतसारकः शीतः । वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ॥ ४४ ॥ छर्दनश्वाग्निधमनो ज्ञेया नाम्नां तु विंशतिः॥
गुणाः-प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणक्रिमिवमिशोफशान्तये । बलासभिद्बहुविषपित्तदोपजिद्विशेषतो हृदयविदाहशान्तिकृत् ॥ ४५ ॥
महानिम्बः (निम्बविशेषः ) ॥ ८॥ महानिम्बः स्मृतोद्रेकी कार्मुको विषमुष्टिकः । केशमुष्टिनिम्बरको रम्यकोsक्षीर एव च ॥ ३१॥
गुणाः-महानिम्बो रसे तिक्तः शीतपित्तकफापहः । कुष्ठरक्तविनाशी च विषूची हन्ति शीतलः ॥ ३२॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःमहानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः । काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ॥ ४६ ॥
१ झ. छर्दिन । २ ज. र्दनः स्यान्निध । ३ ग. "म्बवरोर।
For Private and Personal Use Only