SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःचणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चकः।बालभोज्यो वाजिभक्षश्चणकः कञ्चकी च सः ॥ १५६ ॥ गुणाः-चणको मधुरो रूक्षो मेहजिद्वातपित्तकृत् । दीप्तिवर्णकरो बल्यो रुच्यश्चाऽऽध्मानकारकः ॥ १५७ ॥ हरिमन्थविशेषगुणाः-आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी। गौल्योऽश्मरीशोषविनाशकारी कषाय ईषत्कटुवीर्यकारी ॥ १५८ ॥ कृष्णस्तु चणकः शीतो मधुरः कासपित्तजित् । पित्तातिसारकासनो बल्यश्चैव रसायनः ॥ १५९ ॥ चणो गौरस्तु मधुरो बलकृद्रोचनः परः । श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥ १६० ॥ सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् । वीर्येणोष्णो लघुश्चैव कफशैत्यापहारकः ॥ १६१ ॥ चणस्य यूपं मधुरं कषायं कफापहं वातविकारहेतुः । श्वासोकासक्लमपीनसानां करोति नाशं बलदीपनत्वम् ॥१६२॥ चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि । पुष्टिप्रदं नजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकम् ॥ १६३ ॥ कलायः (हरिमन्थविशेषः ) ॥६॥ *कलायो मुण्डचणको हरेणुश्च सतीनकः । त्रासनो नलकः कण्ठी हरेणुर्वतुलः स्मृतः ॥ १०३ ॥ गुणाः--वर्तुलः शीतलो ग्राही कफपित्तहरो लघुः। विपाके मधुरो रूक्षो वातलो भक्षणप्रियः ॥ १०४॥ राजनिघण्टौ शाल्यादिः पोडशो वर्गः* । बांसनो नालकः कण्ठी सतीनश्च हरेणुकः ॥ १६४ ॥ गुणाः-कलायः कुरुते वातं पित्तदाहकफापहः । रुचिपुष्टिप्रदः शीतः कपायथाऽऽमदोषकृत् ॥ १६५॥ (३०) कुलित्थः। कुलित्थास्ताम्रवर्णाश्च कलावृत्तानिलापहाः । कर्षणाः पीतमुद्गाश्च अलिस्कन्धाः सुराष्ट्रकाः ॥ १०५ ॥ गुणाः-ऊष्णः कुलित्थो रसतः कपायः कटुर्विपाके कफमारुतघ्नः। शुक्राश्मरीगुल्मनिषूदनश्च संग्राहकः पीनसकासहन्ता ॥ १०६ ॥ आनाहमेदोरुचिकीलहिकाश्वासापहः शोणितपित्तकृच्च । बलासहन्ता नयनामयनो विशेपतो वन्यकुलित्थ उक्तः ॥ १०७ ॥ १ ज. शमनो। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy