SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २२७ (२७) गोधूमः। गोधुमो यवकश्चैव हुडम्बो म्लेच्छभोजनः । गिरिजा सैतिनामा च रसिकश्च प्रकीर्तितः ॥ ९७ ॥ गुणाः वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा । संधानो बृंहणो बल्यो गोधूमः स्थैर्यकृत्सरः ॥ ९८ ॥ ___ राजनिघण्टौ शाल्यादिः पोडशो वर्गः गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः । यद॑नो निस्तुषः भीरी रसालः सुमनश्च सः॥ १५१ ॥ गुणाः-गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् । गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥ १५२ ॥ स्निग्धोऽन्यो लघुगोधूमो गुरुर्दृष्यः कफापहः । आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥ १५३ ॥ (२८) धान्यमाषः (मापः) धान्यमापस्तु विज्ञेयः कुरुविन्दो वृषाकरः । मांसलश्च वलाढ्यश्च पित्र्यश्च पितृजोत्तमः ॥ ९९ ॥ गुणाः-स्निग्धोष्णो मधुरो वृष्यो मेदोमांसवलपदः । वातानुबृंहणो बल्यो मापो बहुबलो गुरुः ॥ १०० ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:माषस्तु कुरुविन्दः स्याद्धान्यवीरो वृषाकरः । मांसलश्च बलाढ्यश्च पित्र्यश्च पितृजोत्तमः ।। १५४ ॥ गुणाः-माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् । हन्याद्वातं गुरुवलकरो रोचनो भक्ष्यमाणः स्वादुनित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥ १५५ ॥ (२९) हरिमन्थः (चणकः) हरिमन्थाः सुगन्धाश्च चणकाः कृष्णकञ्चकाः। गुणाः-कफास्रपित्तपुंस्त्वघ्नाचणका वातला हिमाः ॥ १०१॥ लघवो भृष्टचणका आमक्लमहराः पराः। छर्दिना रोचनाः शुष्कास्तेजोवीर्यबलप्रदाः ॥ १०२॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: १ ङ. व दद्रुवाम्ले। छ. व द्रुदुर्वाम्ले । त. व हुद्रवाम्ले । २ ङ. 'नः । धृष्टः समीतना । छ. 'नः । घृष्टसमीतना। ३ ण. सभ्यनामा । ४ ट. 'वमान्निस्तु । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy