________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६ धन्वन्तरीयनिघण्टु:
[सुवर्णादि:गुणाः- *। * ॥ १४३ ॥ वरकः स्थूलकङ्गुश्च रूक्षः स्थूलप्रियङ्गुकः। गुणाः-वरको मधुरो रूक्षः कषायो वात्तपित्तकृत् ॥ १४४॥
(२४) मकुष्ठका (वनमुद्गः ) मकुष्ठका निरूढा च वनमुद्गः कृमीलकः । गुणाः-मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः ॥ ९२ ॥
राजनिघण्टौ शाल्यादिः षोडशो वर्गःमुकुष्ठको मयष्टश्च वनमुद्गः कृमीलकः । अमृतोऽरण्यमुद्गश्च वल्लीमुद्गश्च कीर्तितः॥ १४५ ॥
गुणाः—मुकुष्ठकः कषायः स्यान्मधुरो रक्तपित्तजित् । ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोपहृत् ॥ १४६ ॥
(२५) आढकी। * आढकी तुवरी तुल्या करवीरभुजा तथा । * वृत्तवीजा पीतपुष्पा श्वेता रक्ताऽसिता त्रिधा ॥ ९३ ॥ __ गुणाः-आढकी कफपित्तन्नी किंचिन्मारुतकोपनी। कपाया स्वादुसंग्राहिकदुपाका हिमा लघुः ॥ ९४ ॥ मेदः श्लेष्मास्रपित्तेषु हिता लेपोपसेकयोः ।
राजनिघण्टौ शाल्यादिः षोडशो वर्गः*। * ॥ १४७ ॥ गुणाः-आढकी तु कषाया च मधुरा कफपित्तजित् । ईपद्वातकरा रुच्या विदुला गुरुग्राहिका ॥ १४८ ॥
(२६) ममूरिका। मसूरामधुरासूप्यापृथवः पित्तभेषजम् । हरेणवः सतीनाश्च चणकाश्चाकरालकाः ॥ ९५ ॥
गुणाः-* मसुरो मधुरः शीतः संग्राही कफपित्तहा । ॐ वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥ ९६ ॥
राजनिघण्टौ शाल्यादिः षोडशो वर्गःमसुरो रागदालिस्तु मङ्गल्यः पृथुबीजकः । शूरः कल्याणबीजश्च गुरुबीजो मसूरकः॥ १४९ ॥
गुणाः-*। * ॥ १५०॥
For Private and Personal Use Only