SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-मुद्गः किलाटो माङ्गल्यो हरितः शारदोऽपि च । पित्तप्रसेको वसुको माधवः प्रवरोऽसितः ॥ ८१ ॥ मुद्रो रूक्षो लघुाही कफपित्तहरो हिमः । स्वादुरल्पानिलो नेत्र्यो वन्योऽप्येतद्गुणः स्मृतः ॥ ८२ ॥ हरितः प्रवरस्तेषां तच्छाकं तिक्तमुत्तमम् । कृष्णमुद्गस्तु वरको राजमुद्स्तु खण्डकः ॥८॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश्च रसोत्तमः । भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥ १२८ ॥ कृष्णमुद्गस्तु वासन्तो माधवश्च सुराष्ट्रजः। गुणाः–कृष्णमुद्गस्त्रिदोषनो मधुरो वातनाशनः ॥ १२९ ॥ लघुश्च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः । शारदस्तु हरिन्मुद्गो धूसरोऽन्यश्च शारदः ॥१३०॥ गुणाः-हरिन्मुद्गः कषायश्च मधुरः कफपित्तहृत् । रक्तमूत्रामयनश्च शीतलो लघुदीपनः ॥ १३१ ॥ तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः। गुणाः-कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥ १३२ ॥ मुद्गयूपगुणाः—पित्तस्वरार्तिशमनं लघु मुद्यूपं संतापहारि तदरोचकनाशनं च । रक्तप्रसादनमिदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि॥१३३॥ (१९) माषः (राजमाषः) मापो बीजवरो घारीश्चवलो राजमापकः। *राजमाषो नीलमाषो नृपमाषो नृपोचितः॥ ८४॥ गुणाः-*कफपित्तहरो रुच्यो वातकृद्धलदायकः। राजमापः सरो वृष्यः कफपित्तास्रशुक्रनुत् ॥ ८५ ॥ सुस्वादुः शीतलो रूक्षः कषायो विषदो गुरुः । राजनिघण्टौ शाल्यादिः षोड शो वर्गः*। गुणाः-* ॥ १३४॥ *क्षुवः क्षुधाभिजननश्चपलो दीर्घशिम्बिकः । सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः॥१३५॥ गुणाः-भुवः कषायमधुरः शीतलः कफपित्तजित् । वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥ १३६ ॥ (२०) कोद्रवः । कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः । गुणाः-कोद्रवः शीतलो ग्राही विषपित्तकफाञ्जयेत् ॥ ८६ ॥ __राजनिघण्टौ शाल्यादिः षोडशो वर्गः * क्षुवः ‘लघुचवळी ' इति ख्याते। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy