________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ] राजनिघण्दुसहितः।
२२३ उम्पास उम्पिकाशालिर्मधुरा गुरुतण्डुला । बहुशूका मुगन्धाढ्या तारुण्यजनवल्लभा ॥११८॥
गुणाः-उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका । पित्तश्लेष्महरा रूक्षा शम्पिकाऽनिलनाशनी ॥ ११९ ॥
पक्षिकः पक्षिनावल्यः पक्षिराजो मुनिप्रियः । स्थूलतण्डुलसंभूता गन्धो बहलगन्धकृत् ॥ १२०॥
शालिविशेषाः-दग्धायामवनौ जाताः शालिनो लघुपाकिनः । किंचित्सतिक्ता मधुराः पाचना बलवर्धनाः ॥ १२१ ॥ केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः । ईषत्कषायाल्पमला गुरवः कफनाशनाः ॥ १२२ ॥ शालयो ये छिन्नरुहा रूक्षास्ते बद्धवर्चसः । रोप्यानिरोप्या लघवः शीघ्रपाका गुणोत्तराः ॥ १२३ ॥ विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः)॥
(१७) अक्षता ( यवः ) अक्षतास्तीक्ष्णशकाश्च यवाश्चैव तु नामतः । गुणाः-रुक्षः शीतो गुरुः स्वादुः सरो विवातकृयवः ॥ ७८॥ वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफाञ्जयेत् । पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥ ७९ ॥
राजनिघण्टौ शाल्यादिः षोडशो वर्गःयवस्तु मेध्यः सितशूकसंज्ञो दिव्योऽक्षतः कञ्चकिधान्यराजौ । स्यात्तीक्ष्णशूकस्तुरगप्रियश्च सक्तुहयेष्टश्च पवित्रधान्यम् ॥ १२४ ॥
गुणाः—यवः कषायो मधुरः सुशीतलः प्रमेहजित्तिक्तकफापहारकः। अशूकमण्डस्तु यवो बलप्रदो वृष्यश्च नृणां बहुवीर्यपुष्टिदः ॥ १२५ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग:
वेणजः ( अक्षताविशेषः ) ॥५॥ वेणुजो वेणुबीजश्च वंशजो वंशतण्डुलः । वंशधान्यं च वंशाहो वेणुवंशद्विधायवः ॥ १२६ ॥
गुणाः- शीतः कषायो मधुरस्तु रूक्षो मेहक्रिमिश्लेष्मविषापहश्च । पुष्टिं च वीर्य च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ १२७ ॥
(१८) वासन्ताः ( मुगाः ) वासन्ताः कृष्णमुद्गाश्च शारदा हरितास्तथा । मुद्गानां नामतश्चोक्ताः सूपश्रेष्ठा रसोत्तमाः ।। ८०॥
१ ज. ट. °णुर्वशद्विजाजवाः ।
For Private and Personal Use Only