________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२ धन्वन्तरीयनिघण्टुः
[सुवर्णादिःबलसंभवः । सुधान्यं पथ्यकारी च मुपविप्रज्ञविप्रियः ॥ १०१॥ शालिस्तु कलमाद्यस्तु कलमो नाकलायकः । कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥१०२॥
गुणाः—पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा । लोहितो रक्तशालिः स्यात्काष्ठलोहितशालयः ॥ १०३ ॥
रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः । गुणाः--तृष्णानो मलकृच्छ्रनो हृयस्तु मतिताः परे ॥ १०४ ॥
महाशालिः सुगन्धा स्यात्सुगन्धा गन्धसंभवा । गन्धाढ्या गन्धमाल्या च गन्धानी गन्धमालिनी ॥ १०५ ॥
गुणाः-सुगन्धा मधुरा हृया कफपित्तज्वरात्रजित् । जलोद्भवा जलरुहा जलजाता सुजातका ॥ १०६ ॥
रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा । गुणाः-कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥ १०७ ॥
तिलजा नीलनामा स्यादीर्घकृष्णा सूपूजका । मधुरा च सुगन्धा च तिलवासी निगद्यते ॥१०८ ॥ राजादनी राजप्रिया राजभावा मुनिप्रिया । तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥ १०९ ॥
गुणाः-कफपित्तहराः स्निग्धाः कासवासहराः पराः । शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥ ११० ॥ कोमलाहारसंभूतास्तिलवासीमहागुणाः । पाण्डुरोगेषु शूलेषु चाऽऽमवाते प्रशस्यते ॥ १११ ॥
वक्तको वक्तशालिः स्यादीर्घस्तु आशुकोपितः । राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥ ११२॥ गुणाः-वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा ।
कलाटकः कलुर्वा स्याद्गुरुसो गरुडः स्मृतः ॥ ११३ ॥ गुरुवको गुरडकः सुखभोजी सुभोजकः।
गुणाः--कविलो गन्धकारी च लघुपाककरोऽपि च ॥११४।। कफपित्तहरः स्वादुः शूलवासनिवारणः । ग्रहणीगुल्मकुष्ठनं विकलं भोजने शुभम् ॥११५॥ कूष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः । सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥ ११६ ॥
कम्भिका मधुरा स्निन्धा वातपित्तनिवर्हिणी । सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनोऽफलः। गुणाः-कौसुम्भी लघुपाका च वातपित्तनिवर्हिणी ॥ ११७ ॥
For Private and Personal Use Only