________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः।
गुणाः-कृष्णशालिस्त्रिदोषघ्नो मधुरः पुष्टिवर्धनः ॥ ८६ ॥ वर्णकान्ति-- करो बल्यो दाहजिवीर्यवृद्धिकृत् । ___ रक्तशालिस्त्वाम्रशालिः शोणशालिश्च लोहितः ॥ ८७ ॥
गुणाः-रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः । रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः ॥ ८८ ॥ सर्वामयहरो रुच्यो पित्तदाहानिलाल
जित् ।
मुण्डशालिर्मुण्डनको निःशूको यवशूकजः । गुणाः-मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥ ८९ ॥ स्थूलशालिमहाशालिः स्थूलाङ्गः स्थूलतण्डुलः । एवंगुणाढ्यशालेश्च नामान्यूह्यानि सूरिभिः॥ ९०॥
गुणाः—महाशालिः स्वादुमधुरशिशिरः पित्तशमनो ज्वरं जीर्ण दाहं जठररुजमदाय शमयेत् । शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैरनलबलवीर्याणि कुरुते ॥ ९१॥
सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः । गुणाः—सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् ॥ ९२॥ दीपनः पाचनश्चैव किंचिद्वातविकारजित् ।
गन्धशालिस्तु कल्माषो गन्धालुः कलमोत्तमः । सुगन्धिर्गन्धवहलः सुरभिर्गन्धतण्डुलः ॥ ९३ ॥
गुणाः-सुगन्धशालिर्मधुरोऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः । स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्वाल्पकफश्च बल्यदः ॥ ९४ ॥ निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् । त्रिदोपशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥ ९५ ॥ व्रीहिौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च । पुष्टिं दत्ते श्रमशमनीयवृद्धिं विधत्ते रुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥ ९६ ॥
अथपृथक्शालिनामानि--( *मण्डकः स्थूलशालिश्च स्याद्विम्बशालिकस्तथा । निजातिशाणहुल्याश्च बिम्बी कौसेन्दुकस्तथा ॥ ९७ ॥ प्रसाधिका जीरकाख्या सश्यामा मधुरा मता । राजानां मौलिकस्यापि शालिः स्यादुर्बरी यथा ॥९८॥ सूक्ष्मशालिः कुदितिका सुशालिगुरुशालयः । वनशालिगुण्डरूकी क्षीरिका पतयः पृथक् ॥ ९९ ॥ अशोचा पाटला व्रीहि-हिको व्रीहिधान्यकः । व्रीहिसंधान्यमुद्दिष्टः अर्धधान्यस्तु व्रीहिकः ॥ १०० ॥ गर्भपाकणिकः षष्टिः षष्टिको * एतदारभ्य ‘वल्या मूत्रविवर्धनाः' इत्यन्तो धनुराकारचिह्नस्थो ग्रन्थो ज. ट. पुस्तकयोर्नास्ति ।
For Private and Personal Use Only