SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःमुखस्तथा ॥ ७२ ॥ शालिव्रीहिगुणाः-शीतो गुरुस्त्रिदोषघ्नो मधुरो गौरषष्टिकः । किंचिद्धितो गुरुस्तस्मादपरो रसपाकतः ।। ७३ ।। महाशालिः परो वृष्यः कलमः श्लेष्मपित्तहा । मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ॥७॥ अत्युष्णो बहुनिष्यन्दी पाटलस्तु त्रिदोषकृत् । बहूष्मा बहुविष्मूत्रो व्रीहिराशु त्रिदोषलः ॥ ७५ ॥ ग्रन्थान्तरे-शालयो मधुराः स्निग्धा बल्या बद्धाल्पवर्चसः । पित्तनाल्पा वृष्यकफामूत्रला लघवो हिमाः ॥ ७६ ॥ रक्तशालिस्त्रिदोपन्नश्चक्षुष्यो लघुमूत्रलः । तृष्णाप्नो बलकृत्स्वर्यो हृदस्तिशमनः परः॥ ७७ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गःशालयः कलमा रुच्या वीहिश्रेष्ठा नृपप्रियाः । धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥ ७८ ॥ राजान्नषष्टिकसितेतररक्तमुण्डस्थलाणुगन्धनिरपादिकशालिसंज्ञाः । बीहिस्तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवाणि ।। ७९ ॥ राजान्नं दीर्घशकः खरिपुदिवस पष्टिको वर्णतो द्वौ निःशको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये । मासैर्योऽन्यस्त्रिभिः स्यात्स भवति निरपो योऽपि वृष्ट्यम्बुसंभूरेष स्याहीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥ ८० ॥ शालिनृपानं राजान्नं राजाई दीर्घशककम् । धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकम् ॥ ८१॥ गुणाः-राजानं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु । दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनम् ॥ ८२ ॥ राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्यादौत्तरोत्तर्यतः । त्रैविध्यादिह तण्डुलाश्च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति तेऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥ ८३ ॥ ___षष्टिकः षष्टिशालिः स्यात्पष्टिजः स्निग्धतण्डुलः । षष्टिवासरजः सोऽयं ज्ञेयो मासयोद्भवः ॥ ८४ ।। गुणाः---गौरो नीलः षष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी। वल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात्किचिदूनो द्वितीयः ॥ ८५ ॥ कृष्णशालिः कालशालिः श्यामशालिः सितेतरः। बलपुष्टिप्रभावप्नं चाऽऽशुकं मृत्तिकोद्भवम् । सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोवलापहम् ॥ शूकधान्यं शिम्बिधान्यं परिसंवत्सरोपितम् । लघु पथ्यतमं प्रोक्तं गुर्वपथ्यतमं मतम् ॥ यवगोधूममाषाश्च तिलाश्चापि नवा हिताः । पुराणा विरसा रूक्षा न तथा गुणकारिणः ॥ धान्यं सर्व नवं स्वादु गुरु श्लेष्मकरं स्मृतम् । तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम् । १ झ. द.ताः पीता। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy