________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः।
२१९ प्रवालं सप्तधा शुभम् ॥६५॥ पाण्डुरं धूसरं रूक्षं सत्रणं कण्डरान्वितम् । निर्भार शुभ्रवर्ण च नेष्यते सप्तधा त्विदम् ॥ ६६ ॥
गुणाः-प्रवालकं सरं शीतं वातपित्तत्रिदोषनुत् । दृष्टिदोपविघाताय विषनाशाय चेष्यते ॥ ६७ ॥ क्षयपित्तास्रकासन्नं दीपनं पाचनं लघु । विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥ ६८॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःप्रवालोऽङ्गारकमणिविद्रुमोऽम्भोधिपल्लवः । भौमरत्नं च रक्ताङ्गो रक्ताङ्करो लतामणिः ।। ७३ ॥ प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् । वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ ७४ ॥ प्रवाललक्षणम्-शुद्धं दृढयनं वृत्तं स्निग्धगात्रं सुरङ्गकम् । समं गुरु शिराहीनं प्रवालं धारयेच्छुभम् ॥ ७५ ॥ कुप्रवाललक्षणम्-गौररङ्ग जलाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । रूक्षं कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ७६ ॥ प्रवालपरीक्षा–बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता । या न त्यजति निजरुचिं निकषे घृष्टाऽपि सा स्मृता जात्या ।। ७७ ॥
(१५) 'शालिः। रक्तशालिमहाशालिः सुगन्धप्रसवस्तथा । वृन्दारको मुष्टिकश्च शालीनां प्रवरस्तथा ।। ६९ ॥ शाबरः कृष्णशालिश्च हासो वृन्तक एव च । कृष्णशालिश्च गौरश्च व्रीहयो विविधाः स्मृताः ॥ ७० ॥ श्वेतशालिमहाशालिः स चोक्तो वर्णपूरकः । खरशूकश्च काकश्च स च सूकरवालकः ।। ७१॥ अरण्यधान्यनामा च जलजः सप्रसादकः।
(१६) *व्रीहिः। पष्टिकस्तु महाव्रीहिः कृष्णव्रीहिस्ततोऽनु च । यवकश्चैव पाकश्च रक्तसार+ वाचस्पतौ—'कण्डनेन विना शुक्ला हेमन्ताः शालयः स्मृताः'।
*वाचस्पतौ-'वार्षिकाः कण्डिताः शुक्ला व्रीयश्विरपाकिन:'। ग्रन्थान्तरे-शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम् । शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम् । शालयो रक्तशाल्याद्या व्रीहयः षष्टिकादयः। यवादिकं शुकधान्यं मुद्गाद्यं शिम्बिधान्यकम् ॥ कवादिकं क्षुद्रधान्यं तृणधान्यं च तत्स्मृतम् ।
अन्यच्च-शालयो रक्तशाल्याद्या ब्रीहयः षष्टिकादयः । मुगादि वैदलं शैम्ब्यं कटग्वादि तृणधान्यकम् ॥ तुषारोदक उत्पन्नं धान्यं श्लेष्मरुजापहम् । स्वादुशुभ्रोदके जातं धान्यं पक्वं रुजापहम् ॥
१ क. ङ. शाम्बरः। घ. सौवीरः। २ ङ. छ. 'श्च ह्रस्वो हतक' । ३ क. इ. 'ष्णव्री. हिच गौरश्च शालयो वि' । ४ ङ. 'लिहेमशा । ५ घ. धान्यारण्यकनामा च नीवारस्तु प्रकीर्तितः ।
For Private and Personal Use Only