SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २१७ भार्गवं स्मृतम् ॥ ५५ ॥ अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् । षट्कोणं वहुधारं च शतकोट्यब्धिभूमिजम् ॥ ५६ ॥ गुणाः—रुजां समूह हरते नराणां बलं सुरूपं विदधाति युक्त्या । देहस्य सौख्यं च सदा करोति चिरं तथाऽऽयुः पलितं च हन्ति ॥ ५७ ॥ आयुष्पदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयनम् । सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपं मृत्युंजयं तदमृतोपममेव वज्रम् ॥ ५८ ॥ दोषाः—पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च दुष्टम् । हृत्पार्श्वपीडां कुरुतेऽतिदुःसहामशुद्धवजं गुरुतापदं भवेत् ॥ ५९ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःवज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः । अभेद्यमशिरं रत्नं दृढं भार्गवर्क स्मृतम् ॥ ५८ ॥ षट्कोणं वहधारं च शतकोट्यब्धिभूमितम् ॥ गुणाः-वज्रं च षडूसोपेतं सर्वरोगापहारकम् । सर्वाघशमनं सौख्यं देहदाढ्य रसायनम् ॥ ५९॥ कुवज्रलक्षणम्-भस्मानं काकपादं च रेखाक्रान्तं तु वर्तुलम् । अधारं मलिनं विन्दुसंत्रासं स्फुटितं तथा ॥ ६० ॥ नीलामं चिपिटं रूक्षं तद्वजं दोषदं त्यजेत् । वज्रस्य चतुर्वर्णलक्षणम्-श्वेतालोहितपीतमेचकतया छायाश्चतस्रः क्रमाद्विप्रादित्वमिहास्य यत्सुमनसः शंसन्ति सत्यं ततः । स्फीतां कीर्तिमनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मानामयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥ ६१ ॥ ___ वज्रपरीक्षा—यत्पाषाणतले निकापनिकरे नोघृष्यते निष्ठुरैर्यचोलूखललोहमुद्गरघनै लेखां न यात्याहतम् । यचान्यनिजलीलयैव दलयेद्वन्त्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाध्यं महाघ च तत् ॥ ६२ ॥ चतुर्वर्णवज्रगुणलक्षणम्-विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलीतजिन्मृत्युं जयेदजसा । द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्योऽथ शूद्रो भवेत्सर्वव्याधिहरस्तदेष कथितो वज्रस्य वयर्यो गुणः ॥ ६३ ॥ राजावर्तः ( हीरकविशेषः ) ॥४॥ राजावर्तश्च राजा च नीलाश्मा तु नृपोपलः । सुवर्णधातू राजाद्री राजप्रस्तर एव च ॥६०॥ वज्रं क्षिप्त्वा निरुध्य च । अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः ॥ शतवार ततो ध्मात्वा निक्षिप्त शुद्धपारदे । निश्चितं म्रियते वज्रं भस्म वारिता भवेत् । सत्यवाक्सोमसेनानीरेतद्वज्रस्य मारणम् । दृष्टप्रत्ययसंयुक्तमुक्तवान्नसकौतुकी ॥ विलिप्तं मत्कुणस्यास्त्रैः सप्तवारं विशोषितम् । कासमदरसापूणे लोहपात्रे निवेशितम् । सप्तवारं परिमातं वज्रभस्म भवेत्खल । ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥ नीलज्योतिर्लताकन्दे घृष्टं धर्म विशोषितम् । वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवहिना ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy