SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। (९) पारदः ( रसः ) पारदो रुद्ररेतश्च रिसलोहं महारसम् । रसेन्द्रं चपलं भूतं पारदीयं रसोत्तमम् ॥ ३७॥ पारदभेदशोधनमारणानि--- तत्राऽऽदौ-रसो रसेन्द्रः सूतश्च पारदो मिश्रकस्तथा । तदाप्रभृति कृपस्थं तद्रेतः पञ्चधाऽभवत् ॥ मूतोऽशुद्धतया गुणं न कुरुते कुष्ठाग्निमान्द्यक्रिमीश्छारोचकजाड्यदाहमरणं धत्ते नृणां सेवनात् । शुद्धः स्यात्सकलामयैकशमनो यो योगवाहो मृतो युक्त्या षड्गुणगन्धयुग्गदहरो वेगेन धात्वादिभुक् ।। मूर्खतो गदहृत्तदैव खगतिं धत्ते विबद्धोऽर्थदः स्याद्भस्माऽऽमयवार्धकादिहरणं दृक्पुष्टिकान्तिप्रदम् । वृष्यं मृत्युविनाशनं बलकरं कान्ताजनानन्दनं शार्दूलातुलसत्त्वकृक्रमभुजां योगानुसारि स्फुटम् ॥ मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । अमरी करोति मृतः कोऽन्यः करुणाकरः सूतात् ॥ पारदकञ्चकशोधनम्-मलेन मुर्छा दहनेन दाहं विषेण मृत्युं वितनोति सूतः । मलादिदोषत्रयमेतदत्र नैसर्गिक शुद्धिमतोऽभिधास्ये ॥ नागो वङ्गो मलो वह्रिश्वाञ्चल्यं च गिरिविषम् । पारदे कत्रुकाः सप्त सन्ति नैसर्गिका इमे ॥रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकम्। जम्बीरद्रवसंयुक्तं नागदोषापनुत्तये ॥ विशालाकोलमलस्य चूर्ण तु सह कन्यया । शनैः शनैः स्वहस्तेन वङ्गदोषीवमुतये ॥ राजवृक्षस्य मूलं च चूर्णेन सह कन्यया । मलदोषापनुत्त्यर्थ चित्रको वद्विदूषणम् ॥ चाञ्चल्यं कृष्णधत्तुरो गिरि हन्ति कटुवयम् । त्रिफला विषनाशाय कन्यकासप्तकचुकान् ॥ *पारदशोधनम् - दुग्धोर्णाग्रहधूमसाररजनीरक्तेष्टिकाकामिकैः पिष्टा व्योषकुमारिकानलवरानिम्बूवासरम् ॥ व्योषाद्यम्बुनि दोलया रचितया स्विनं सुताम्राज्रियुक्पिष्टं भाण्डतले जलाश्रयगतं सतं समभ्युद्धरेत् ॥ लवणसलिलदोलायन्त्रमध्ये दिनैकं भुजगनयनचिश्चाभृङ्गवन्ध्याद्रवेण । क्वथितदहनतोये कालिके स्वेदितः स्यात्पुटमरिचसशा(शशी)रक्षारसुत्थारनाले ॥ पारदभस्मसेवनम्-रसेन्द्रं सेवयेन्नित्यं चतुर्गुञ्जाप्रमाणतः । आज्येन मरिचैः सार्ध सेवयेच रसेश्वरम् ॥ दशभिः पिप्पलीभिर्वा मधुना सह सेवयेत् । यथा जलगतं तैलं तत्क्षणादेव सर्पति ॥ एवमौषधमङ्गेषु विसर्पत्यनुपानतः । पित्ते शर्करया मले च पयसा वाते च कृष्णासमं दद्याच्छ्लेष्मणि शृङ्गबेरसलिलैर्जम्बीरनारवरे । रक्तोत्थे मधुना प्रवाहरुधिरे स्यान्मेघनादोदकैर्दना चाथ कृतातिसारविकृतौ रोगारिसंज्ञं रसम् ॥ गव्यं सुदुग्धं सलिलार्धकेन शृतं कृतं पानजलं मुशीतलम् । खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिवेत्सदैव ॥ गुडेन सतं मरिचाज्ययुक्तं स्निग्धोष्णभोजी दधिभुक्सदैव । नवप्रतिश्यायहरं च सूतकं विशेषतो दुष्टकफस्य पाचनम् ॥ चूर्णीकृतां माषविदारियष्टिका सशर्करां सतनपेण युक्ताम् । प्रमथ्य दुग्धेन पिवेनिरन्तरं स्त्रीणां शतं कामयते स कामी ॥ मुस्तामृताचन्दनधान्यवीरणं शुण्ठीकषायं मधुशर्करान्वितम् । लिहन्प्रभाते विनिहन्ति नित्यं श्वासं च कासं कफरक्तपित्तम् ॥ प्रातर्निपीतो मधुना रसेन्द्रः स वारितः स्थौल्यहरोऽचिरेण । भक्तस्य मण्डं पिवतः ससूतं कोष्ठं हरेत्स्थौल्यहरोऽचिरेण । सठी तिक्ता व्याघ्री सुरभिमगधा पर्पटवरी दुरालम्भा पथ्या तदनु वरणं रोहिणि वचा । गुडुची त्रायन्ती वरशतगुरु गितगरं सठीत्याद्यो वर्गः सकलगदहृत्सूतसहितः । भाीगुडव्योषरसेन्द्रहिङ्गयुक्तः कषायस्तिलकृष्णजातः । शूलानिहन्यादृढरक्तगुल्मानष्टं च पुष्पं करुतेऽङ्गनानाम् ॥ + आयर्वेदविज्ञाने-रसायनार्थिभिलेोकः पारदो रस्यते यतः । अतो रस इति प्रोक्त: स च धातुरपि स्मृतः ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy