________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःगुणाः-पारदः कृमिकुष्ठन्न आयुष्यो दृष्टिदः परः । सुवल्यः सकपायश्च मूर्छितोऽसौ गदापहः ॥ ३८ ।। दोपाः-संस्कारहीनं खलु सूतराजं सेवेत यस्तस्य करोति बाधाम् । देहस्य नाशं विदधाति नूनं कुष्ठादिदोपाञ्जनयेनराणाम् ॥ ४० ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःपारदो रसराजश्च रसनाथो महारसः । रसश्चैव महातेजा रसलोहो रसोतमः ॥ ३९ ॥ सूतरादचपलो जैत्रः शिवबीजं शिवस्तथा । अमृतं च रसेन्द्रः स्याल्लोकेशो धूतरः प्रभुः ॥ ४१ ॥ रुद्रजो हरतजश्च रसधातुरचिन्त्यजः । खेचरश्वामरः प्रोक्तो देहदो मृत्युनाशनः ॥ ४२ ॥ स्कन्धः स्कन्धांशकः सूतो देवो दिव्यरसस्तथा । प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः॥ ४३ ॥ ___ गुणाः—पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः । पञ्चभूतमय एप कीर्तितो देहलोहपरसिद्धिदायकः ॥४४॥ मूर्छितो हरते व्याधीन्बद्धः खेचरसिद्धिदः । सर्वसिद्धिकरो लीनो निरुद्धो देहसिद्धिदः॥ ४५ ।। विविधव्याधिभयोदयमरणजरासंकटेऽपि मर्त्यानाम् । पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ।। ४६ ॥
*हिङ्गलम् । (हिङ्गलः) (पारदचूर्णविशेषः) ॥३॥ हिङ्गलं दरदं म्लेच्छं हिङ्गुलं चूर्णपारदम् । मणिरागरं चान्यन्नाम्ना चर्मानुरञ्जनम् ॥ ४० ॥
गुणाः-हिङ्गुल कटुकं पाके वीर्ये चोष्णं प्रकीर्तितम् । विपकुष्टविसर्पादित्वग्दोपदलनं स्मृतम् ॥४१॥ हिङ्गुलं मधुरं तिक्तमुष्णवातकफापहम् ।
___ * हिपॅलवर्णनं शुद्धिश्च–हिट् गुल: शुकतुण्डाख्यो हंसपादस्तथाऽपरः । प्रथमोऽल्पगुणस्तत्र चारः स निगद्यते। श्वेतरेषः प्रवालाभो हंसपादः स ईरितः । हिगुल: सर्वदोषन्नो दीपनोऽतिरसायनः । सर्वरोगहरो दृष्यो जारणायाति शस्यते । एतस्मादाहृतः सतो जीर्णगन्धसमो गणैः । सप्तकृत्वाऽऽर्द्रकद्रावैर्लकुचस्याम्बुनाऽपि वा । शोषितो भावयित्वा च निर्दोषो जायते खलु । किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवगैः । एवं सुवर्ण बहुधर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥ दरदः पातनायत्रे पातितश्च जलाशये । तत्तत्त्वं सृतसंकाशं पातयेन्नात्र संशयः ॥
हिगुलशोधनम्--अन्यच्च-मेषीक्षीरेण दरदमम्लवगैश्च भावितम् । सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम् ॥
हिङ्गलादसाकर्षणविधिः-निम्बरसैनिम्बपत्ररसैर्वा याममात्रकम् । घृष्टा दरदमूर्ध्व तु पातयेत्सतयुक्तिवत् । तत्रोलपिठरीलग्नं गृह्णीयाद्रसमुत्तमम् । शुद्धमेव हितं सतं सर्वकर्मसु योजयेत् ॥
१ ट. 'हरससि । २ झ. नीलो ।
For Private and Personal Use Only