________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
धन्वन्तरीयनिघण्टुः- [सुवर्णादि:गुणाः-वर्तलोहं हिमं विद्यादम्लं कटुकमेव च । रूक्षं कफविकारनं हन्यापित्तोद्भवा रुजः ॥ ३४॥
राजनिघण्टौ सुवर्णादिखयोदशो वर्गःवर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरम् । नीलिका नीललोहं च लोहजं वट्टलोहकम् ॥ ३४॥
गुणाः-इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा। कफहत्पित्तशमनं मधुरं दाहमेहनुत् ॥ ३५॥
लोहोच्छिष्टम् । ( लोहविशेषः) ॥२॥ लोहोच्छिष्टं च मण्डूरं किमु चैव मलोद्भवम् । लोहोत्थं लोहनिर्यासमयःशिष्टं च कीर्तितम् ॥ ३५॥
गुणाः--आमवातहरणं च शोभनं पाण्डुमेहगदनाशनाग्रजम् । दुष्टकुष्ठपवना. स्रवातजित्स्याजरामितवलीविनाशनम् ॥ ३६॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःलोहकिटं तु किट्ट स्याल्लोहचूर्णमयोमलम् । लोहजं कृष्णचूर्ण च कार्ये लोहमलं तथा ॥ ३६॥
गुणाः-लोहकिटं तु मधुरं कटुष्णं कृमिवातनुत् । पक्तिशूलं मरुच्छूलं मेहगुल्मातिशोफनुत् ॥ ३७॥
समस्ताशोधितधातुदोषाः-स्वर्ण सम्यगशोधितं श्रमकरं खेदावहं दुःसहं रौप्यं जाठरजाड्यमान्यजननं तानं वमिभ्रान्तिदम् । नागं च त्रषु चाङ्गदोषदमयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तमुदितं कामयस्फोटदम् ॥ ३८ ॥ विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापही गौरवगुल्मदायको । कांस्यायसं क्लेदकतापकारकं रीत्यौ च संमोहनशोषदायके ॥ ३९ ॥
*मण्डूरकरणम्-अक्षागारैर्धमेत्किटं लोहजं तद्गवां जलैः । सेचयेत्तप्ततप्तं तत्सप्तवारं पुनः पुनः ॥ चूर्णयित्वा ततः क्वाथैर्द्विगुणस्त्रिफलाभवैः । आलोड्य भर्जयेद्वहौ मण्डूरं जायते वरम् ।। + - आयुर्वेद विज्ञाने ' मायमानस्य लो हस्य मलं मण्ड्रमुच्यते ।
१ झ. मयोच्छिष्टं । २ ज. ट. कार्याम ।
For Private and Personal Use Only