________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ पष्ठो वर्गः] राजनिघण्टुसहितः। मृदु कण्टं कडारं च त्रिविधं मुण्डमुच्यते ॥ २७ ॥ खरसारं च हर्तालं तालं वल्लं च वज्जरम् । काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ २८॥ भ्रामरं चुम्बकं चैव रञ्जकालोचके तथा । एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥ २९ ॥ ___ गुणाः-कपायं शोफशूलार्श:कुष्ठपाण्डुप्रमेहजित् । लोहं तिक्तोष्णरूक्षं स्यापाण्डुरोगहरं परम् ॥ ३० ॥ कफपित्तापहं पुंसां रसायनमनुत्तमम् ॥३०॥ अन्यच्च-आयुः प्रदाता बलवीर्यकर्ता रोगापहर्ता मदनस्य कर्ता । अयःसमानो न हि कश्चिदन्यो रसायनं श्रेष्ठतमं वदन्ति ॥ ३१ ॥ दोषाः-दोषकारि गदकारि चाऽऽयसं चेदशुद्धमतिसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजं करोति च ॥ ३२ ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः*अयस्कान्तं कान्तलोहं कान्तं स्याल्लोहकान्तिकम् । कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥ २७ ॥ अपि च–स्याद्धामकं तदनु चुम्बकरोमकाख्यं स्याच्छेदकाख्यमिति तच्च चतुर्विधं स्यात् । कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्लाङ्गकान्तिकचकायॆविरोगदायि ॥ २८ ।। मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजम् । अश्मजं कृमिलोहं च आरं कृष्णायसं नव ॥ २९ ॥ तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । आयसं निशितं तीनं लोहखङ्गं च मुण्डजम् ॥ ३० ॥ अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा।
गुणाः-लोहं रूक्षोणतिक्तं स्याद्वातपित्तकफापहम् । प्रमेहपाण्डुशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतम् ॥ ३१॥
अयस्कान्तगुणाः-अयस्कान्तविशेषाः स्युर्धामकाथुम्वकादयः । रसायनकराः सर्वे देहसिद्धिकराः पराः ॥ ३२॥ न सतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगादसायनमुदीरितम् ।। ३३ ।।
वर्तलोहम् ( लोहविशेषः ) ॥ १॥ वर्तलोह वट्टलोहं वर्तकं लोहमेव च । वर्तुलोहं च विख्यातं पञ्चलोहं च नीलिका ॥ ३३ ॥
*अयस्कान्तम् ‘लोहचुंबक' इति ख्याते । *वर्तलोहशोधनमारणे-द्वतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति । म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् ॥
For Private and Personal Use Only