________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्दुसहितः।
२०३ गुणाः-तिलको मधुरः स्निग्धो वातपित्तकफापहः । वलपुष्टिकरो हृयो लघुर्मेदोविवर्धनः ॥ २६८ ॥ तिलकत्वकषायोष्णा पुंस्त्वनी दन्तदोषनुत् । कृमिशोफत्रणान्हन्ति रक्तदोपविनाशनी ॥ २६९ ॥
(६०) अशोकः। अशोकः शोकनाशश्च विचित्रः कर्णपूरकः । विशोको रक्तको रागी चित्रः पदपदमञ्जरी ॥ १५९ ॥
गुणाः-अशोकः शीतलचाशःकृमीन्हन्ति प्रयोजितः । अपची नाशयत्येव सर्वत्रणविनाशनः ॥ १५८ ॥ अशोको मधुरो हृद्यः संधानीयः सुगन्धिकः ।
राजनिघण्टौ करवीरादिर्दशमो वर्गःअशोकः शोकनाशः स्याद्विशोको वक्षुलद्रुमः । मधुपुष्पोऽपशोकश्च कङ्केलिः कलिकस्तथा ॥ २७० ॥ रक्तपल्लवकश्चित्रो विचित्रः कर्णपूरकः । सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥२७१॥ रागी तरुहेमपुष्पो रामावामाज्रिघातकः । पिण्डीपुष्पो नटश्चैव पल्लवद्रु(िवा)विंशतिः ॥ २७२ ॥
गुणाः-अशोकः शिशिरो हृयः पित्तदाहश्रमापहः । गुल्म'लोदराध्माननाशनः कृमिकारकः ॥ २७३ ॥
(६१) किंशुकः ( पूर्वा) किंशुको वातपोथश्च रक्तपुष्पोऽथ याज्ञिकः । त्रिपर्णो रक्तपुष्पश्च पूतद्रुर्ब्रह्मवृक्षकः ॥ १६१ ॥ क्षारश्रेष्ठः पलाशश्च वीजस्नेहः समिद्वरः।
गुणाः-क्षारश्रेष्ठः कृमिघ्नश्च संग्राही दीपनः सरः ॥ १६२ ।। प्लीहगुल्मग्रहण्यशेवातश्लेष्मविनाशनः । किंशुकस्यापि कुसुमं सुगन्धि मधुरं च यत् । वीजं तु कटुकं स्निग्धमुष्णं कृमिबलासजित् ॥ १६३ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गः. पलाशः किशुकः पर्णो वातपोथोऽथ याज्ञिकः । त्रिपर्णो वक्रपुष्पश्च पूतद्रुब्रह्मवृक्षकः ॥ २७४ ॥ ब्रह्मोपनेता काष्ठदुः पर्यायाश्च दश स्मृताः।
गुणाः-पलाशस्तु कषायोष्णः कृमिदोषविनाशनः । तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत ॥२७५|| तस्य पुष्पं च सोष्णं च कण्डूकुष्ठातिनाशनम् । रक्तः पीतः सितो नीलः कुसुमैस्तु विभज्यते ॥ २७६ ॥ किंशुकैर्गुणसाम्येऽपि सितो विज्ञानदः स्मृतः।
१ झ. चित्रस्तु बकम।
For Private and Personal Use Only