________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४
धन्वन्तरीयनिघण्टुः - [ आम्रादिः ५ पञ्चमो वर्गः ] वर्गेतराणि(१) केतकीयम् ।
केतकी सूचिकापुप्पो जम्बूकः क्रकचच्छदः । सुवर्णकेतकी चान्या लघुपुष्पा सुगन्धिनी ॥ १ ॥
गुणाः केतकी कटुका पाके लघुतिक्ता कफापहा । राजनिघण्टौ करवीरादिर्दशमो वर्ग:
केतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका । मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥ १ ॥ क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांसुला । गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥ २ ॥ स्वर्णादिकेतकी त्वन्या ज्ञेया सा हैमकेतकी | कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा ॥ ३ ॥ विष्टरुहा स्वर्णपुष्पी कामखड़दला च सा ।
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः - केतकीकुसुमं वर्ण्य केशदौर्गन्ध्यनाशनम् ॥ ४ ॥ हेमाभं मदनोन्मादवर्धनं सौख्यकारि च । तस्य स्तनोऽतिशिशिरः कटुः पित्तकफापहः || ५ ॥ रसायनकरो बल्यो देहदाकरः परः ।
(२) गणेरुका ( गणेरुकः )
गणेरुका कर्णिकारः कर्णिश्च गणकारिका । गुणाः -- गणेरुः शोधनी शोफ श्लेष्मास्रवणकुष्ठजित् ॥ २ ॥ ( ३ ) सागः ( शाकः )
सागः करच्छदो भूमिसहो दीर्घच्छदो मतः ।
गुणाः -- सागः श्लेष्मानिलास्रघ्नो गर्भसंधानदो हिमः ॥ ३ ॥ राजनिघण्टौ भद्रादिर्नवमी वर्ग:--
शाकः क्रकचपत्रः स्यात्खरपत्रोऽतिपत्रकः । महीसहः श्रेष्ठकाष्ठः स्थिरसा च गृहद्रुमः ।। ६ ।।
गुणाः-शाकस्तु सारसः मोक्तः पित्तदाह श्रमापहः । कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ ७ ॥
(४) धवः ।
वो नन्दितरुगौरी शकटाक्षो धुरन्धरी ।
गुणाः -- धवः शीतः प्रमेहाः पाण्डुपित्तकफापहः ॥ ४ ॥ राजनिघण्टौ प्रभद्रादिर्नमो वर्ग:
For Private and Personal Use Only