________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः ]
राजनिघण्टु सहितः ।
गुणाः यूथिकायुगुलं स्वादु शिशिरं शर्करातिनुत् । पित्तदाहतृषाहारी नानात्वग्दोषनाशनम् ।। २५३ ।। सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः ।
गुणाः - तिक्त हिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः || २५४ ॥ सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता । सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ।। २५५ ।।
२०१
(५४) कुन्दः । ( कुन्दा )
कुन्दः सुमकरन्दश्च सदापुष्पो मनोहरः । अट्टहासो भृङ्गसहच्छुकः शाल्योदनोपमः । १५० ।।
गुणाः कुन्दस्य कुसुमं हृद्यं स्वल्पगन्धि मनोहरम् । राजनिघण्टी करवीरादिर्दशमो वर्ग:
कुन्दस्तु मकरन्दश्च महामोदो मनोहरः । मुक्तापुष्पः सदापुष्पस्तारपुष्पोs - ट्टहासकः ।। २५६ ।। दमनो वनहासश्च मनोज्ञो रुद्रसंमितः ।
गुणाः - कुन्दोऽतिमधुरः शीतः कषायः कैश्यभावनः । कफपित्तहरश्चैव सरो दीपनपाचनः || २५७ ॥
( ५५ ) शतपत्री । (शतपत्रा )
* शतपत्री तु सुमना सुशीता शिववल्लभा । * सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका || १५१ ॥
गुणाः - शतपत्राहिमा तिक्ता कषाया कुष्ठनाशनी । मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ।। १५२ ।।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
* । * ।। २५८ ।। * । * ।। २५९ ॥
( ५६ ) अतिमुक्तः । ( अतिमुक्तकः )
अतिमुक्तः कार्मुकश्च मण्डनो भ्रमरोत्सवः । अविमुक्तो माधवी च सुवसन्तः पराश्रयः ।। १५३ ॥
गुणाः - अतिमुक्तं सुगन्धि स्यायमुक्तं सुमण्डनम् ।
For Private and Personal Use Only
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिदुक्ताऽन्या । मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ।। २६० ।।
२६