________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०० धन्वन्तरीयनिघण्टुः
[ आम्रादि:राजनिघण्टौ करवीरादिर्दशमो वर्गःतरणी सहा कुमारी गन्धाढ्या चारुकेसरा भृङ्गेष्टा । रामतरणी तु सुदला बहुपत्रा भृङ्गवल्लभा च दशाहा ॥ २४४ ॥
गुणाः–तरणी शिशिरा स्निग्धा पित्तदाहज्वरापहा । मधुरा मुखपाकन्नी तृष्णाविच्छर्दिवारिणी ॥ २४५ ॥ महती तु राजतरणी महासहा वर्ण्यपुष्पकोऽम्लानः। अमिलातकः सुपुष्पः सुवर्णपुष्पश्च सप्ताहः ॥ २४६॥
गुणाः-विज्ञेया राजतरणी कषाया कफकारिणी । चक्षुष्या हर्षदा हया सुरभिः सुरवल्लभा ॥ २४७ ॥
(५२) कुब्जकः। कुजको भद्रतरणी बृहत्पुष्पाऽतिकेसरा । महासहा कण्टकाढ्या नीलालिकुलसंकुला ॥ १४६ ॥
गुणाः- कुब्जकः सुरभिः स्वादुः कषायस्तु रसायनः । त्रिदोपशमनो वृष्यः शीतः संग्रहणोऽपरः॥१४७ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:कुजको भद्रतरणी वृत्तपुष्पोऽतिकेसरः । महासहः कण्टकान्यः खोऽलिकुलसंकुलः ॥ २४८ ॥
गुणाः-कुञ्जकः सुरभिः शीतो रक्तपित्तकफापहः । पुष्पं तु शीतलं वर्ण्य दाहघ्नं वातपित्तजित् ॥ २४९ ॥
(५३) यूथिका। यूथिका बालपुष्पा तु पुष्पगन्धा गुणोज्ज्वला । गणिका चारुमोदा च शिखण्डी स्तूंर्णयूथिका ॥ १४८ ॥ *सुवर्णयूथा हरिणी पीतिका पीतयूथिका । प्रोक्ताऽन्या शङ्खधवला नामतः शङ्खयूथिका ॥ १४९ ॥ गुणाः-यूथिकायुगुलं स्वादु शर्करानं सुगन्धि च ।
राजनिघण्टौ करवीरादिर्दशमो वर्ग:यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका । मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥२५० ॥ अन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका । युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ २५१॥ हरिणी पीतयूथी च पीतिका कनकप्रभा । मनोहरा च गन्धाढ्या प्रोक्ता सा मनुसंमिता ॥ २५२॥
* ' सुवर्णयूथा ' सोनजुवी, पिवळीजुवी, इति ख्याते। १ क. ख, घ. 'को देवत' । २ क. पुष्पोऽति । ३ क. ड. कणिका । ४ ड. स्वर्णपुष्पिका ।
For Private and Personal Use Only