________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः ] राजनिघण्टुसहितः।
गुणाः-नेपालिका रसे तिक्ता वीर्ये चोष्णा प्रकीर्तिता । वातपित्तरुजां नेत्ररोगाणां नाशनी मता ॥ १४१ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गःवनमल्लिकाऽतिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा । सप्तला सुकुमारा च सुरभी सूचिमल्लिका ॥ २३६ ॥ सुगन्धा शिखरिणी स्यानेवाली चेन्दुभूवया । गुणाः–वनमल्लिकाऽतिशैत्या सुरभिः सर्वरोगहृत् ॥ २३७ ॥
(५०) चम्पकः ( आश्लेषा ) चम्पकः सुकुमारश्च सुरभिः शीतलश्च सः। चाम्पेयो हेमपुष्पश्च काश्चनः षट्पदातिथिः ॥ १४२॥
गुणाः-चम्पकः कथितः शीतो वीर्येऽतिकटुको रसे । हृद्यः सुगन्धिविषहा कफपित्तविनाशनः ॥ १४३ ॥
चम्पकविशेषगुणाः-चम्पकप्रसवमिष्टसुगन्धं भूसुरामरमहीपतियोग्यम् । वातपित्तशमनं च सुगन्धि स्वर्णवर्णमपि षट्पदधाति ॥ १४४ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्गःचम्पकः स्वर्णपुष्पश्च चाम्पेयः शीतलच्छदः। सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥ २३८ ॥ सुरभिर्दिव्यपुष्पश्च स्थिरगन्धोऽतिगन्धकः । स्थिरपुष्पो हेमपुष्पः पीतपुष्पस्तथाऽपरः ॥ २३९ ॥ हेमाह्वः सुकुमारस्तु वनदीपोऽटभूतयः । तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ।।२४०॥
गुणाः-चम्पकः कटुकस्तिक्तः शिशिरो दाहनाशनः । कुष्ठकण्डूव्रणहरो गुणान्यो राजचम्पकः ॥२४१ ॥ क्षुद्रादिचम्पकस्त्वन्यः संज्ञेयो नागचम्पकः । फणिचम्पकनागाह्वश्चम्पको वनजः शराः ॥ २४२॥
गुणाः-वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः । चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ।। २४३ ॥
(५१) तरणी ( तरुणी) तरणी रामतरणी कणिका चारुकेसरा । सहा कुमारी गन्धाब्या द्विरेफगणसंमता ॥ १४५ ॥ गुणाः-तरणी श्लेष्मपित्तनी ग्राहिणी शीतलाऽग्निजित् ।
+ क. ख. ड. पुस्तकेष्वयं पाठो दृश्यते-- ___“ चम्पकः कटुकः शीतः कफपित्तविषापहः ।
हृत्सुगन्धिश्च पित्तना विशेषाद्राजचम्पकः " इति । १ क. स. घ. ड. लच्छदः । चा' । २ श. 'पदं दधाति । ३ क. मवातघ्नी । ४ ङ, छ. निकृत् ।
For Private and Personal Use Only