________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[ आम्रादिःराजनिघण्टौ करवीरादिर्दशमो वर्गःवार्षिकी त्रिपुटा व्यस्रा सुरूपा सुलभा प्रिया । श्रीवल्ली पट्पदानन्दा मुक्तबन्धा नकाभिधा ॥ २२९ ॥
गुणाः-वार्षिकी शिशिरा हृद्या सुगन्धिः पित्तनाशनी । कफवातविषस्फोटकृमिदोषामनाशनी ॥ २३० ॥
(४७) जाती ( हस्तः) जाती मनोज्ञा सुमना राजपुत्री प्रियंवदा । मालती हृद्यगन्धा च चेतिका तैलभाविनी ॥ १३७॥
गुणाः-मालती कफपित्तास्यरुक्पाकत्रणकुष्ठजित् । चक्षुष्यो मुकुलस्तस्यास्तत्पुष्पं कर्फवातजित् ॥ १३८ ॥ सुगन्धि च मनोगं च सर्वश्रेष्ठतमं मतम् ।
राजनिघण्टौ करवीरादिर्दशमो वर्गःजाती सुरभिगन्धा स्यात्सुमना तु सुरप्रिया । केतकी सुकुमारा तु संध्यापुष्पा मनोहरा ॥ २३१॥राजपुत्री मनोज्ञा च मालती तैलभाविनी। जनेष्टा हृद्यगन्धा च नामान्यस्याश्चतुर्दश ॥ २३२॥
गुणाः—मालती शीततिक्ता स्यात्कफनी मुखपाकनुत् । कुड्मलं नेत्ररो. गन्नं व्रणविस्फोटकुष्टनुत् ॥ २३३ ॥
(४८) वासन्ती । वासन्ती प्रहसन्ती च सुवसन्ता वसन्तजा । शोभना शीतसंवासा सेव्या भ्रमरबान्धवा ॥ १३९ ॥ गुणाः---वासन्ती शीतला हृया सुगन्धा स्वेदनाशनी ।
राजनिघण्टौ करवीरादिदेशमो वर्ग:वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः। शीतसहा मधुबहला वसन्तदूती च नवनाम्नी ॥ २३४॥
गुणाः—वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी । धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ २३५ ॥
(४९) ग्रैष्मी। ग्रैप्मी तु सुरभिः कान्ता सुगन्धा वनमालिनी । सुकुमारा शिखरिणी नेपाली वनमालिका* ॥ १४० ॥
* क. ख. पुस्तकयोरधिकमिदं श्लोकाध दृश्यते--
'वनमाली सुगन्धा च सुकुमारा च मोदिनी' इति । १ झ. तिलभाविनी । २ क. ख. ङ. फपित्तजि । ३ ख. नेवाली।
For Private and Personal Use Only