________________
Shri Mahavir Jain Aradhana Kendra
५ पञ्चमो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
(४४ ) इरिमेदः ।
इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमार प्रतिमे
दोsहिमारकः ॥ १३३ ॥
गुणाः - मुखरोगहरः शीतो रक्तामस्तम्भकारकः । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:
इरिमेदोऽरिमेदश्च गोधास्कन्धोऽरिमेदकः । अहिमेदोऽहिमारश्च पूतिमेदोऽहिमेदकः || २२३ ॥
गुणाः - अहिमेदः कषायोष्णस्तिक्तो भूतविनाशकः । शोफातिसारका - सो विषवीसर्पनाशनः ॥ २२४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१९७
( ४५ ) मल्लिका |
मल्लिका शीतभीरुश्च मदयन्ती प्रमोदिनी । मदनीया गवाक्षी च भूपद्यष्टपदी तथा ।। १३४ ॥
गुणाः – मल्लिकोष्णा कटुः स्वादे दारयत्यास्यजान्गदान् । संत्रासयति नेत्रोत्थरुजः पित्तसमीरजित् ॥ १३५ ॥
राजनिघण्टौ करवीरादिर्दशमो वर्ग:
मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका । शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता || २२५ || मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः ।
गुणाः— मल्लिका कटुतिक्ता स्याच्चक्षुष्या मुखपाकनुत् । कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ।। २२६ ॥
मल्लिका *मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ २२७ ॥
गुणाः - - नेत्ररोगापहत्री स्यात्कटूष्णा वृत्तमल्लिका | व्रणन्नी गन्धबहला दारयत्यास्यजान्गदान् ।। २२८ ।।
(४६) वार्षिकी ।
वार्षिकी त्रिपुटा त्र्यस्रा सुरूपा सुभगा प्रिया । श्रीमती पट्पदानन्दा सुवर्षा मुक्तबन्धना ।। १३६ ।।
गुणाः- श्रीमती षट्पदानन्दा सुगन्धा पित्तनाशिनी ।
* 'मोदिनी' वटमोगरा इति ख्याते ।
For Private and Personal Use Only
१ क. ङ. 'दोऽरिमा ं । २ झ. त. व मेदः प्रत्यरिमेदकः । ३ छ. झ. भूतपर्ण्यप । ४. ख. 'दे हरत्यर्शादिका व्यथाः । सं ।