________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
धन्वन्तरीयनिघण्टुः
[आम्रादि:स्निग्धः शुक्रश्लेष्मविवर्धनः ॥ २१३ ॥ तद्रसस्तद्गुणो ग्राही कषायः कफनाशनः । पुष्पं तद्वच्च निर्दिष्टं फलं तस्य तथाविधम् ॥ २१४ ॥ मोचरसो मोचस्तु मोचस्रावश्च मोचनिर्यासः। पिच्छलसारः सुरसः शाल्मलिवेष्टश्च मोचसारश्च ॥ २१५ ॥ ___ गुणाः—मोचरसस्तु कपायः कफवातहरो रसायनो योगात् । बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥ २१६ ॥
रोहितकः (रोहितः ) ( शाल्मलीविशेषः ) ॥ २१ ॥ रोहीतको रोहितको रोही दाडिमपुष्पकः । कुशाल्मलिः शाल्मलिको रोचनः कूटशाल्मलिः ॥ १३०॥
गुणाः-रोहीतको यकृत्प्लीहगुल्मोदरहरः सरः । शुष्को रोहितकश्चैव कटूष्णमुभयं स्मृतम् ॥ १३१ ॥ कर्णरोगहरं चैव विषवेगविनाशनम् ।
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःरोहीतको रोहितकश्च रोहितः कुशाल्मलिर्दाडिमपुप्पसंज्ञकः। सदापसूनः स च कुटशाल्मलिविरोचनः शाल्मलिको नवाह्वयः ॥ २१७ ॥
सप्ताहः श्वेतरोहितः सितपुष्पः सिताद्वयः । सिताङ्गः शुक्लरोहितो लक्ष्मीवाञ्जनवल्लभः ॥ २१८॥ ___ गुणाः-रोहितको कटुस्निग्धौ कषायौ च सुशीतलौ । कृमिदोषत्रणप्लीहरक्तनेत्रामयापहौ ॥ २१९ ॥
(४३) मुष्ककः ( मुष्कः ) मुष्कको मोक्षको मुष्टिHषको मुञ्चकस्तथा । क्षारश्रेष्ठो गोलकश्च द्विविधः श्वेतकृष्णकः ॥ १३२ ।। गुणाः-वातश्लेष्महरः क्षारश्रेष्ठो ग्राही च गुल्मनुत् ।
राजनिघण्टावाम्रादिरेकादशो वर्गःमुष्कको मोचको मुष्को मोक्षको मुश्चकस्तथा । गोलीढो मेहनश्चैव क्षारवृक्षश्च पाटलिः ॥ २२० ॥ विपापहो जटालश्च वनवासी सुतीक्ष्णकः । श्वेतः कृष्णश्च स द्वेधा स्यात्रयोदशसंज्ञकः ॥ २२१ ॥ ___ गुणाः-मष्ककः कटुकोऽम्लश्च रोचनः पाचनः परः। प्लीहगल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥ २२२ ॥
१ झ. ढ. 'ष्टिव्रणवी।
For Private and Personal Use Only