________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९० धन्वन्तरीयनिघण्टुः
[ आम्रादिःकृत्स्वादुतिक्तकम् ॥१०० ॥ अन्यच्च-करीराक्षकपीलूनि त्रीणि स्तन्यफलानि च । स्वादुतिक्तकटूष्णानि कफवातहराणि च ॥ १०१॥
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःनिष्पत्रकः करीरश्च करीरग्रन्थिलस्तथा । ककरो गूढपत्रश्च करकस्तीक्ष्णकण्टकः ॥ १६६ ॥
गुणाः-करीरमाध्मानकर कषायं कटूष्णमेतत्कफकारि भूरि । श्वासानिलारोचकसर्वशूलविच्छदिखजूव्रणदोषहारि ॥ १६७ ॥
(३३) करमर्दकम् । करमर्दकमाविग्नं सुषेणं पाणिमर्दकम् । कराम्लं करमदं च कृष्णपाकफलं मतम् ॥ १०२॥
गुणाः-अम्लं तृष्णापहं रुच्यं पित्तकृत्करमर्दकम् । पकं च मधुरं शीतं रक्तपित्तहरं मतम् ।। १०३ ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:करमर्दः सुषेणश्च कराम्लः करमर्दकः । आविग्नः पाणिमर्दश्च कृष्णपाकफलो मुनिः ॥ १६८॥
गुणाः—करमर्दः सतिक्ताम्लो बालो दीपनदाहकः । पक्कस्त्रिदोषशमनोsरुचिनो विषनाशनः ॥ १६९ ॥
(३४) कदम्बः । (नीपकः ) ( शततारका ) कदम्बो वृत्तपुष्पश्च नीपस्तु ललनाप्रियः । कादम्बयङ्कवृक्षोऽन्यः सुवास: कर्णपूरकः ॥.१०४ ॥ धाराकदम्बः प्रावृष्यः कादम्बर्यो हरिप्रियः। नीपो धूलिकदम्बोऽन्यः सुवासो वृत्तपुष्पकः ॥ १०५ ॥
गुणाः—कदम्बस्तु कषायः स्याद्रसे शीतो गुणेऽपि च । व्रणरोहणश्चापि कासदाहविषापहः ॥ १०६ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःकदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः । कादम्बर्यः सिन्धुपुष्पो मदान्यः कर्णपूरकः ॥ १७० ॥
गुणाः-कदम्बस्तिक्तकटुकः कपायो वातनाशनः । शीतलः कफपित्तातिनाशनः शुक्रवर्धनः ॥१७१॥ धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः । मेघागमपियो नीपः पाटषेण्यः कदम्बकः ॥ १७२ ॥ धूलीकदम्बः क्रमुकासून:
१ ङ. छ. 'म्बर्यः सिन्धुपुष्पो मदाढ्यः क । २ ढ. `त्तानां ना' ।
For Private and Personal Use Only