________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
१८९ (३१) बदरम् (कोलम् ) बदरं कोलकं कोलं सौवीरं फेनिलं कुहम् । कर्कन्धुकं गुडफलं बालेष्टं फलशैशिरः ॥ ९६ ॥ ___ गुणाः-कर्कन्धुकोलवदरमम्लं वातकफापहम् । पकं पित्तानिलहरं स्निग्धं च मधुरं रसे ॥९७॥ पुरातनं तुदशमनमामघ्नं दीपनं लघु । सौवीरवदरं स्निग्धं मधुरं वातपित्तजित् ॥ ९८॥
राजनिघण्टावाम्रादिरेकादशो वर्गःबदरो बदरी कोलः कर्कन्धः फेनिलः स्मृतः। सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥ १५६ ॥ दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः । सुबीजः सुफलः स्वच्छः स प्रोक्तः स्मृतिसंमितः ॥ १५७ ॥
गुणाः-बदरं मधुरं कषायमम्लं परिपकं मधुराम्लमुष्णमेतत् । कफकृत्पचनातिसाररक्तश्रमशोषातिविनाशनं च रुच्यम् ॥ १५८ ॥ बदरस्य पत्रलेपो ज्वरदाहविनाशनः । त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥ १५९ ॥ राजबदरो नृपेष्टो नृपवदरो राजवल्लभश्चैव । पृथुफलस्तनुवीजो मधुरफलो राजकोलश्च ॥ १६०॥ ___ गुणाः-राजबदरः समधुरः शिशिरो दाहात्तिपित्तवातहरः । वृष्यश्च वीर्यद्धिं कुरुते शोषश्रमं हरते ॥ १६१ ॥ भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च । बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥ १६२ ॥
गुणाः-भूबदरी मधुराऽम्ला कफवातविकारहारिणी पथ्या । दीपनपाचनकी किंचित्पित्तास्रकारिणी रुच्या ॥ १६३ ॥ सूक्ष्मफलो वद्रोऽन्यो बहुकण्टः सूक्ष्मपत्रको दुस्पर्शः । मधुरः शबराहारः शिखिप्रियश्चैव निर्दिष्टः ॥ १६४ ॥
गुणाः-लघुबदरं मधुराम्लं पकं कफवातनाशनं रुच्यम् । स्निग्धं तु जन्तुकारकमीपत्पित्तातिदाहशोषघ्नम् ॥ १६५ ॥
(३२) करीरः (करीरम् ) करीरो गूढपत्रश्च शाकपुष्पो मृदुफलः । ग्रन्थिलस्तीक्ष्णसारश्च चक्रकस्तीक्ष्णकण्टकः ॥ ९९॥ गुणाः-वातश्लेष्महरं रुच्यं कटूष्णं गुदकीलजित् । करीरमाध्मानकरं रुचि
१ ख. सरम् । २ क. ङ, गुच्छपत्रश्च ।
For Private and Personal Use Only