________________
Shri Mahavir Jain Aradhana Kendra
१८८
www.kobatirth.org
धन्वन्तरीयनिघण्टुः
गुणाः - *। * ।। १४८ ।।
Acharya Shri Kailassagarsuri Gyanmandir
(२९) श्लेष्मातकः ।
श्लेष्मातकः कर्बुदारः पिच्छलो लेखसार्टकः । शेलुः शैलैर्बाहुवीर : शापितो द्विजकुत्सितः ॥ ९४ ॥
गुणाः- श्लेष्मातको हिमः स्वादुः स्याद्रूक्षः पिच्छलः शुचिः । राजनिघण्टावाम्रादिरेकादशो वर्ग:--
[ आम्रादिः -
श्लेष्मातको वाहुवीरः पिच्छलो द्विजकुत्सितः । शेलुः शीतफलः शीतः शाकटः कर्बुदारकः ।। १४८ ।। भूतडुमो गन्धपुष्पः ख्यात एकादशाह्वयः । गुणाः- श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकरः कृमिशूलहारी । आमात्रदोषफलरोधबहुवणार्तिविस्फोटशान्तिकरणः कफकारकश्च
।। १४९ ।।
राजनिघण्टावाम्रादिरेकादशो वर्गः - भूकर्बुदारः ( श्लेष्मातकविशेषः ) ॥ १४ ॥
भूकर्बुदारकञ्चान्यः क्षुल्ल श्लेष्मातकस्तथा । भूशेलुलघुशेलु पिच्छलो लघुप्र्वकः ।। १५० ।। लघुशीतः सूक्ष्मफलो लघुभूतद्रुमव सः ।
गुणाः – भूकर्बुदारो मधुरः कृमिदोषविनाशनः । वातप्रकोपनः किंचित्सशीतः स्वर्णमात्रकः ।। १५१ ॥
(३०) शमी (धनिष्ठा )
शमी शङ्कुफला तुङ्गा केशही शिवाफला । ईशानी शंकरी लक्ष्मीर्मङ्गल्या पापनाशिनी ॥ ९५ ॥
―――
गुणाः - शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् ।
राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग:
शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी । हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ शापापशमनी ।। १५२ || भद्राऽथ शंकरी ज्ञेया केशहत्री शिवाफला । सुपत्रा सुखदा चैव ज्ञेया पञ्चदशाह्वया || १५३ ॥
गुणाः -- शमी रूक्षा कषाया च रक्तपित्तातिसारजित् । तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ १५४ ॥ द्वितीया तु शमी शान्ता शुभा भद्राऽपराजिता । जया च विजया चैव पूर्वोक्त गुणसंयुता ॥ १५५ ॥
१ ख. 'टकम् | शे ं । २ ख. लुर्बहिर्वारुः शा ।
For Private and Personal Use Only