________________
Shri Mahavir Jain Aradhana Kendra
५ पञ्चमो वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टुसहितः ।
गुणाः- -* * ॥ १३८ ॥
अपि च — औदुम्बरं फलमतीव हिमं सुपकं पित्तापहं च मधुरं श्रमशोफहारि । आमं कषायमतिदीपनरोचनं च मांसस्य वृद्धिकरमस्त्रविकारकारि ।। १३९ ॥ नद्युदुम्बरिका चान्या लघुपत्रफला तथा । लघुहेमदुघा प्रोक्ता लघुपूर्वसदाफला ।। १४० || लघ्वाद्युदुम्बराद्वा स्याद्वाणाह्वा च प्रकीर्तिता ।
गुणाः -- रसवीर्यविपाकेषु किंचिन्यूना च पूर्वतः ॥ १४१ ॥ (२७) काकोदुम्बरिका |
१८७
काकोदुम्बरिका फल्गू राजिफल्गुः शिवाटिका | फल्गुनी फलेसंभारी मलयूश्चित्रभेषजा ॥ ८८ ॥
गुणाः काकोदुम्बरिका ग्राहिकण्डुकुष्ठत्रणापहा । रक्तपित्तहरा शोफपाण्डुश्लेष्महरा च सा ॥ ८९ ॥ अन्यच्च - काकोदुम्बरिका शीता पाके गौल्याऽल्मिका कटुः । त्वग्दोषरक्तपित्तघ्नी तत्फलं चातिसारहृत् ॥ ९० ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:
कृष्णोदुम्बरिका चान्या खरपत्री च राजिका । उदुम्बरी च कठिना कुठली फल्गुवाटिका ॥ १४२ ॥ अजाक्षी फल्गुनी चैव मलयूश्चित्रभेषजा । काकोदुम्बरिका चैव ध्वाङ्क्षनास्त्री त्रयोदश ।। १४३ ।।
गुणा: --- काकोदुम्बरिका शीता पक्का गौल्याऽल्मिका कटुः । त्वग्दोषपित्तरनी तद्वल्कं चातिसारजित् ।। १४४ ।। उदुम्बरत्वचा शीता कपाया व्रणनाशिनी । गुर्विणी गर्भसंरक्षे हिता स्तन्यप्रदायिनी ।। १४५ ॥
(२८) क्षीरी (क्षीरिका, क्षीरिणी)
क्षीरी चोक्तस्तु राजन्यः स क्षीरशुक्लको नृपः । राजादनो दृढस्कन्धः कपीष्टः प्रियदर्शनः ॥ ९१ ॥
गुणाः- राजादनो रसे स्वादुः पाकेऽम्लः शीतलस्तथा । रुचिकारी भवेद्वातनाशनश्च प्रकीर्तितः ॥ ९२ ॥ राजादनी तु मधुरा पित्तहरुतर्पणी । * वृष्या स्थौल्यकरी हुया सुस्निग्धा मेहनाशकृत् ॥ ९३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्गः
For Private and Personal Use Only
राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः । निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ।। १४६ ।। क्षीरी गुच्छफलः प्रोक्तः गुकेष्टो राजवल्लभः । श्रीफलोऽथ दृढस्कन्धः क्षीरशुक्लस्त्रिपञ्चधा ।। १४७ ॥
१ ग. लकान्तारी ।