________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- आम्रादिःस्कन्धा प्रकीर्तिता ॥ ८३ ॥ वेतसी काकजम्बूश्च नादेयी शीतवल्लभा । भ्रमरेटा नीलवर्णा द्वितीया जम्बुरुच्यते ॥ ८४ ॥
जम्बूद्वयगुणाः-जाम्बवं वातलं ग्राहि स्वाद्वम्लं कर्फवातजित् । हृत्कण्ठघर्षणं चान्यत्कषायं क्षुद्रजाम्बवम् ॥ ८५ ॥
राजनिघण्टावाम्रादिरेकादशो वर्गःजम्बूस्तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा । राजार्दा राजफला शुकप्रिया मेघमोदिनी नवाहा ॥ १२८ ॥
गुणाः-जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोपशमनी कृमिदोषहत्री । श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥ १२९ ॥ महाजम्बू राजजम्बूः स्वर्णमाता महाफला । शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥ १३० ॥
गुणाः-महाजम्बूरुष्णा समधुरकषाया श्रमहरा निरस्यत्यास्यस्थं झटिति जडिमानं स्वरकरी । विधत्ते विष्टम्भं शमयति च शोपं वितनुते श्रमातीसाराति श्वसितकफकासप्रशमनम् ॥ १३१ ॥ काकमम्बूः काकफला नादेयी काकवल्लभा । भृङ्गेष्टा काकनीला च ध्वांक्षजम्बूर्घनप्रिया ॥ १३२ ॥
गुणाः-काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः । दाहश्रमातिसारनी वीर्यपुष्टिबलप्रदा ॥ १३३ ॥ अन्या च भूमिजम्बूर्हस्वफला भृङ्गवल्लभा ह्रस्वा । भूजम्बूर्भमरेष्टा पिकभक्षा काष्ठजम्बूश्च ॥ १३४ ॥
गुणाः-भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् । हृया संग्राहिहत्कण्ठदोषनी वीर्यपुष्टिदा ॥ १३५ ॥
(२६) उदुम्बरः (कृत्तिका) *उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः । अपुष्पपलसंबन्धो यज्ञाङ्गः शीतवल्कलः ॥ ८६ ॥
गुणाः-*उदुम्बरं कषायं स्यात्पकं तु मधुरं हिमम् । *कृमिकृत्पित्तरक्तघ्नं मूछोदाहतृषापहम् ॥ ८७॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:*कालस्कन्धो यज्ञयोग्यो यज्ञियः सुप्रतिष्ठितः॥१३६।। शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः । सौम्यः शीतफलश्चेति मधुसंज्ञः समीरितः॥१३७॥
x काकजम्बू: 'नदीतीरजांबू' इति ख्याते । ** भूमिजम्बूः 'क्षुद्रजंबू' इति ख्याते।
१क. . फपित्तजि ।
For Private and Personal Use Only