________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
१८५ वृक्षो गजाशनः ॥ ७८ ॥ श्रीमान्क्षीरद्रुमो विप्रः शुभदः श्यामलच्छदः । पिप्पलो गुह्यपत्रस्तु सेव्यः सत्यः शुचिद्रुमः ॥७९॥ चैत्यद्रुमो बन्यवृक्षश्चन्द्रकरमिताद्वयः। गुणाः-अश्वत्थोऽपि स्मृतस्तद्वद्रक्तपित्तकफापहः ॥ ८०॥
राजनिघण्टावाम्रादिरेकादशो वर्गःअश्वत्थश्चाच्युतावासश्चलपत्रः पवित्रकः । शुभदो बोधिवृक्षश्च याज्ञिको गजभक्षकः ॥११८ ॥ श्रीमान्क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश्च सः। पिप्पलो गुह्यपत्रश्च सेव्यः सत्यः शुचिद्रुमः । चैत्यद्रुमो धर्मवृक्षश्चन्द्रकरमिताद्वयः॥ ११९॥
गुणाः-पिप्पलः सुमधुरस्तु कषायः शीतलश्च कफपित्तविनाशी । रक्तदाहशमनः स हि सद्यो योनिदोपहरणः किल पक्कः ॥१२०॥ अन्यच्च-अश्वत्थवृक्षस्य फलानि पक्कान्यतीव हृद्यानि च शीतलानि। कुर्वन्ति पित्तास्रविषार्तिदाह विच्छर्दिशोपारुचिदोषनाशम् ॥ १२१ ॥ अश्वत्थी लघुपत्री स्यात्पवित्रा हस्वपत्रिका । पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥ १२२ ॥
गुणाः-अश्वत्थिका तु मधुरा कषाया चालपित्तजित् । विपदाहप्रशमनी गुर्विण्या हितकारिणी ॥ १२३ ॥
(२४) प्लक्षः । (उत्तरा) प्लक्षः कपीतनः शृङ्गी सुपार्श्वश्वारुदर्शनः । प्लवको गर्दभाण्डश्च कमण्डलुवटप्लवः ॥ ८१ ॥
गुणाः --प्लक्षः कटुकषायश्च शीतलो रक्तपित्तजित् । मूर्छाश्रमप्रलापांश्च हरेत्प्लक्षो विशेषतः ।। ८२॥
राजनिघण्टावाम्रादिरेकादशो वर्गःप्लक्षः कपीतनः क्षीरी सुपार्थोऽथ कमण्डलुः । शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः ॥ १२४ ॥ दृढप्ररोहः प्लवकः प्लवङ्गश्च महाबलः । प्लक्षश्चैवापरो इस्वः सुशीतः शीतवीर्यकः ॥ १२५ ॥ पुण्ड्रो महावरोहश्च इस्वपर्णस्तु पिम्परिः । भिदुरो मङ्गलच्छायो ज्ञेयो नेत्रकराभिधः ॥ १२६ ॥
गुणाः-प्लक्षः कटुकषायश्च शिशिरो रक्तदोषजित् । मूmभ्रमप्रलापनो हस्वपक्षो विशोषकः ॥ १२७ ॥
(२५) जम्बः ( रोहिणी ) जम्बूः सुरभिपत्रा च राजजम्बूमहाफलः । सुरभी स्यान्महाजम्बूमहा
१ ज. दाहवि' । २ ङ. छ. 'छाभ्रम ।
For Private and Personal Use Only