________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमा वर्गः ]
राजनिघण्टुसहितः ।
१९१
परागपुष्पी बलभद्रसंज्ञकः । वसन्तपुष्पो मकरन्दवासी भृङ्गप्रियो रेणुकदम्बकोऽष्टौ || १७३ || भूमिकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः । लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः || १७४ ॥
कदम्बत्रयगुणाः—त्रिकदम्बाः कटुवर्ण्य विषशोफहरा हिमाः । कषायास्तिक्तपित्तघ्ना वीर्यवृद्धिकराः पराः ।। १७५ ।। (३५) करञ्जः ।
करञ्जो नक्तमालश्च पूतिकश्चिरिबिल्वकः । घृतपर्णः करञ्जोऽन्यः प्रकीर्यो गौर एव च ॥ १०७ ॥
गुणाः - करञ्जश्रोष्णतिक्तः स्यात्कफपित्तास्रदोषजित् । व्रणप्लीहकुमीन्हन्ति भूतो योनिरोगहा ॥ १०८ ॥ चिरबिल्वः करञ्जव तीव्रो वातकफापहः । राजनिघण्टौ भद्रादिर्नवम वर्ग:
करञ्जो नक्तमालश्च पूतिकश्विरविल्वकः । पूतिपर्णो वृद्धफलो रोचनश्च प्रकीर्यकः ।। १७६ ।।
गुणाः – करञ्जः कटुरुष्णश्च चक्षुष्यो वातनाशनः । तस्य स्नेहोऽतिस्निग्धश्व वातघ्नः स्थिरदीप्तिदः ।। १७७ || अन्यो वृतकरञ्जः स्यात्प्रकीर्यो घृतपर्णकः । taraपत्रस्तपस्वी च विषारिश्व विरोचनः ।। १७८ ॥
गुणाः -- घृतकरञ्जः कटूष्णो वातहृद्वणनाशनः । सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ।। १७९ ॥
उदकीर्यः । ( करञ्जविशेषः ) ॥ १५ ॥
उदीर्यस्तृतीयोऽन्यः पग्रन्थो हस्तिचारिणी । मदहस्तिनिका रोही हस्तिरोहणकः प्रियः || १०९ ॥
राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:
प्रकीर्यो रजनीपुष्पः सुमनाः पृतिकर्णिकः । पूतिकरञ्जः कैडर्यः कलिमालव सप्तधा ।। ९८० ॥
अङ्गारवल्लिका ( करञ्जविशेषः ) ।। १६ ।।
अङ्गारवेल्लकाऽम्बष्ठा काकी काकमाण्डिका । वायव्या काल्मिकाभेदा वाक्यवल्यपि चोच्यते ॥ ११० ॥
गुणाः - *महाकरञ्जस्तिक्तोष्णः कटुको विषनाशनः । कण्डूविचर्चिकाकुछ्रुत्वग्दोषत्रणनाशनः ।। १११ ॥
१. पृतिपत्रकः । २ क. ङ. वल्ली शाम्बंग, वल्ली शार्ङ्गष्टा काक' । ३ क. ख. ङ. करभाण्डिका ।
For Private and Personal Use Only