________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः
(४) मञ्जिष्ठा। मञ्जिष्ठा कालमेपी च समङ्गा विकसाऽरुणा । मझुका रक्तयष्टी च भाण्डी योजनवल्लयपि ॥ १७ ॥ क्षेत्रिणी विजया रक्ता रक्ताङ्गी वस्त्रभूषणा । जिङ्गी भण्डी तथा काला गण्डाली कालमेषिका ॥ १८ ॥
गुणाः-*मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस्तथा । *कफोग्रवणमेहास्रविषनेत्रामयाञ्जयेत् ॥ १९ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःमञ्जिष्ठा हरिणी रक्ता गौरी योजनबल्लिका । समगा विकसा पद्मा रोहिणी कालमेषिका ॥ १५ ॥ भण्डी चित्रलता चित्रा चित्राङ्गी. जननी च सा । मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ १६ ॥ क्षेत्रिणी चैव रागाढया भण्डीरी कोलभाण्डिका । अरुणा ज्वरहत्री च च्छमा नागकुमारिका ॥१७॥ भाण्डारलतिका चैव रागाङ्गी वस्त्रभूषणा । सैकत्रिंशाहया प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥१८॥ गुणाः -* * ॥१९॥
(५) धन्वयासः। * धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा । * दुरालभा च दुःस्पर्शा यासो धन्वयवासकः ॥ २०॥
गुणाः—दुरालम्भा स्वादुशीता तिक्ता दाहविनाशनी। विषमज्वरतृट्च्छदिमेहमोहविनाशिनी ॥ २१ ॥
राजनिघण्टौ गुडूच्यादिस्तुतीयो वर्गःप्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा । दुर्लभा दुष्पवर्षा च स्याचतुदेशसंज्ञका ॥ २० ॥ * * ॥
गुणाः-दुरालम्भा कटुस्तिक्ता सोष्णा क्षाराम्लिका तथा । मधुरा वातपितनी ज्वरगुल्मप्रमेहजित् ॥ २१ ॥ अन्या क्षुद्रदुरालम्भा मरुस्था मरुसंभवा । विशारदाऽजभक्षा स्यादजादन्युष्ट्रभक्षिका ॥२२॥ कषाया फणिहृच्चैव ग्राहिणी करभप्रिया । करभादनिका चेति विज्ञेया द्वादशाभिधा ॥ २३ ॥ दुरालम्भा द्वितीया च गौल्याऽम्लज्वरकुष्ठनुत् । श्वासकासभ्रमन्त्री च पारदे शुद्धिकारिका ॥ २४॥
१ झ. ढ. जलनी । २ ज . ट. क्षीरिणी। ३ झ. ट. च्छयो । ४ ज. भण्डीरलतिका।
For Private and Personal Use Only