________________
Shri Mahavir Jain Aradhana Kendra
१ प्रथमो वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टुसहितः ।
यासः ( धन्वयासविशेष ) ॥ २ ॥
यासो यवासकोऽनन्तो बालपत्रोऽधिकण्टकः । दूरमूलः समुद्रान्तो दीर्घमूलो मरुद्भवः || २२ ॥
गुणाः -- यवासकः स्वादुतिक्तो ज्वरनुरक्तपित्तनुत् ।
११
राजनिघण्टौ गुच्यादिस्तृतीयो वर्ग:
यासो यवासो बहुकण्टकोऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा । स्याद्वालपत्रोऽधिककण्टकः खरः सुदूरमूलो विषकण्टकोऽपि सः ।। २५ ।। अनन्तस्तीक्ष्णकण्टश्च समुद्रान्तो मरुद्भवः । दीर्घमूलः सूक्ष्मपत्रो विषघ्नः कण्टकालुकः ॥ २६ ॥ त्रिपणिका च गान्धारी चैकविंशतिनामभिः |
गुणाः - यासो मधुरतिक्तोऽसौ शीतः पित्तार्तिदाहजित् । बलदीपनकृतृष्णाक फच्छर्दिविसर्पजित् ॥ २७ ॥
( ६ ) वासकः ।
वासकः सिंहपर्णी च वृषो वासांऽथ सिंहिका । आटरूपः सिंहमुखी भिषमाताटरूषकः ॥ २३ ॥
गुणाः- आरूषो हिमस्तिक्तः पित्तश्लेष्मास्रकासजित् । क्षयहृच्छर्दिकुष्ठप्नो ज्वरतृष्णाविनाशनः । २४ ॥
राजनिघण्टौ शतादिचतुर्थो वर्गः -
For Private and Personal Use Only
वासकः सिंहिका वासा भिषग्माता वसादनी । आटरूपः सिंहमुखी सिंही कण्ठीरवी वृषः || २८ || शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा । सिंहपण मृगेन्द्राणी नामान्यस्यास्तु षोडश ॥ २९ ॥
गुणाः- वासा तिक्ता कटुः शीता कासनी रक्तपित्तजित् । कामलाकफबैकल्यज्वरश्वासक्षयापहा ॥ ३० ॥
( ७ ) खदिरः । ( मृगः, मृगशीर्षः )
खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च जिह्मशल्यः क्षतक्षमः || २५ ॥
गुणाः खदिरः स्याद्वसे तिक्तो हिमपित्तकफास्रनुत् । कुष्ठामकासकण्डूतिकृमिदोपहरः स्मृतः || २६ ।। खदिरः कृमिकुष्ठघ्नः कफरेतोविशोषणः । राजनिघण्टौ शाल्मल्यादिरमो वर्ग:खदिरो वालपत्र खोद्यपत्रिक्षितिक्षमाः । सुशल्यो वक्रकण्टश्च यज्ञाङ्गो
१ ङ. च. छ. सा च सिं। २ झ, ढ, 'खाड्यप ।