________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुसहितः। . राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:- .
अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा । विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥७॥ वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता । अरुणोपविषा चैव ज्ञेया सप्तदशाह्वया ॥ ८॥ गुणाः-* * ॥९॥
(३) मूर्वा । मूर्वा मधुरसा देवी पृथक्पी त्रिपर्ण्यऽपि । देवश्रेणी स्वादुरसा स्निग्धपर्णी च मोरटा ॥ १३ ॥
गुणाः--पूर्वा स्वादुरसा चोष्णा द्रोगकफवातजित् । कुष्ठकण्डूवमीमेहविषमज्वरनाशिनी ॥ १४॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःमूर्वा दिव्यलताऽमरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलाऽमरी मधुमती तिक्ता पृथक्पर्णिका। गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणिमधुलिकामधुदलाः स्युः पीलुनी रक्तला ॥ १० ॥ सुखोषिता स्निग्धपर्णी पीलुपी मधुस्रवा । ज्वलनी गोपवल्ली चेत्यष्टाविंशतिसंज्ञका ॥११॥
‘गुणाः-मूर्वा तिक्ता कषायोष्णा हृद्रोगकफवातहृत् । वमिप्रमेहकुष्ठारिर्विषमज्वरहारिणी ॥ १२ ॥
मोस्टः ( मूविशेषः)॥१॥ मोरटः कीर्णपुष्पश्च पीलुपुष्पो मधुस्रवः। तेजिनी दीर्घमूला च पुरुषः क्षीरमोरटः ॥ १५ ॥ .. गुणाः-*ज्वरनो मुखवैरस्यतृष्णादाहविनाशनः । कफपित्तहरश्वासौ विज्ञेयः क्षीरमोरटः॥ १६॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:__ मोरटः कीर्णपुष्पश्च पीलुपत्रो मधुस्रवः । घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥ १३ ॥
गुणाः-मोरटः क्षीरवहुलो मधुरः सकपायकः । पित्तदाहज्वरान्हन्ति वृष्यो बलविवर्धनः ॥ १४ ॥
* अयं श्लोकः ग ङ च छ पुस्तकेषु न दृश्यते ।
१ त. तिक्तरसा।
For Private and Personal Use Only